________________
४९४
हीरसौभाग्यम् [सर्ग ७ श्लो० ७१-७३ तरा मध्ये यन्त्रणतः पीडनतः निर्गमनतः शिखायामग्रभागे खण्ड शकलमिवाजनिष्ट संजातमिव ॥
કલેકાર્થ ઉધ્યાચલ પર્વતના શિખર ઉપર કંઈક અપૂર્ણ એવું ચંદ્રબિંબ લે છે. તે જાણે રાહુની દામાં પીલાવાથી શિખર ઉપર ચંદ્રને એક ટુકડે પડ ન હોય ! Iળા
संपूर्णपीयूषमयूखबिम्ब, बभौ ततः स्वीयदिगङ्गनायै ।
मरन्दलीनालिपुरंदरेण, समर्प्यते स्म स्मितपुण्डरीकम् ॥७२॥ ततोऽनन्तर संपूर्णमखण्ड पीयूषमयूखस्य चन्द्रस्य बिम्ब मण्डल बभौ भासते स्म । उत्प्रेक्ष्यते-पुरंदरेण इन्द्रेण स्वीयायै आत्मीयायै दिगगनायै हरित्कान्तायै निजपूर्व दिक्पग्रनयनायै मरन्दाथें मकरन्दपानकृते लीना अन्तनिश्चलीभूता अलयो भ्रमरा यत्र तादृक् स्मितपुण्डरीक विस्मेरश्वेतकमल कि समर्प्यते स्म विश्राणित दत्तमिव ॥
કલેકાર્થ ત્યારપછી સંપૂર્ણ ચંદ્રમંડલ શોભે છે, ઇન્ડે પિતાની પ્રિયા પૂર્વદિશાને, રસપાન કરવામાં લીન બ્રમો જેમાં છે એવું વિકસ્વર કમલ અર્પણ કર્યું ન હોય ! છરા
पितामहस्य व्रतिराट्चरित्र-श्चित्रीयमाणस्य विधूतमौलेः । कमण्डलुश्चान्द्र इवोत्पलाङ्कः, स्रस्तः शयादुल्लसति स्म सोमः ॥७३॥
सोमश्चन्द्र उल्लसति स्म उल्लासं दशदिक्षु ज्योतिःप्रसारमातनुते स्म शोभते स्म घा । कवेरपरवर्णनराभस्येन मा ग्रन्थनायको विस्मृतोऽभूदिति । तमेव स्मारयति इति सर्वत्रापि योजनीयम् । उत्प्रेक्ष्यते--व्रतिराजः श्रीहीरविजयसूरिपुरंदरस्य चरित्रैः सर्वातिशायिभिरवदातैश्चित्रीयमाणस्य अनन्यसामान्यविस्मयरस दधानस्य अत एव विस्मयातिरेकाद्विधूतः कम्पितो मौलिमस्तक येन तादृशस्य पितामहम्य वृद्धस्य विधातुः शयात्पाणिपात्रस्तः कथंचित्पतितः अत्याश्चर्यरसवशाञ्चित्तवयम्येण पाणिपङ्कजाद्गलितः। तथा उत्पलाङ्कः कुवलयकलितः तथा चान्द्रश्चन्द्रकान्तमणिमयः कमण्डलुरिव कुण्डिकाख्यं जलपानपात्रमिव । 'कुण्डिका तु कमण्डलुः' इति हैम्याम् ॥
કલેકાર્થ દશે દિશામાં જ્યોતિ પ્રસાતો ચંદ્ર શોભે છે. તે જાણે આચાર્ય હીરવિજયસૂરિના અસાધારણ ચરિત્રથી વિસ્મિત થવાથી જેનું મસ્તક કંપાયમાન થયું છે એવા વૃદ્ધ પિતામહ બ્રહ્માના હાથમાંથી પડી ગયેલું નીલકમલના ચિહ્નવાળું ચંદ્રકાન્ત મણીનું કમંડલ ન હોય ! ૭૩