________________
सर्ग ७ श्लो० ६९-७१ ] हीरसौभाग्यम्
४९३ तरचक्षुर्लक्ष्या चन्द्रलेखा शशिकला चञ्चति संशोभते । 'चञ्चति चकास्ति लसत्यपि शोभते' इति क्रियाकलापे । उत्प्रेक्ष्यते-हरेः पुरन्दरस्य दिक् पूर्वाशा सैव मृगाक्षी हरि णेक्षणा वधूस्तस्याः चिकुराः केशपाशास्तेषामन्तरे मध्ये तिष्ठतीति चिकुरान्तरस्था नि बिडघनकेशकलापत्वेन किंचिन्मनाक् निरीक्ष्या दृग्गोचरा चूडामणिः किमु शिरोरत्नमिव। मणिशब्दः पुंस्त्रीलिङ्गयोरपि । यथा 'प्रश्निस्तिथ्यशनीमणिः सृणिः' इति लिङ्गानुशासने । तथा इस्वो दीर्घोऽपि । अथवा चूडामणिमस्तकाभरणविशेषः । सौराष्ट्रगुर्जरेषु तु 'चाक' इति लोकोक्त्या तत्र पुंलिङ्ग एवावधार्यते ॥
પ્લેકાર્થ ગીચ વડે ઉલ્લસિત એવા પૂર્વાચલના શિખર ઉપર કંઈક દેખી શકાય તેવી ચંદ્રલેખા શેભે છે. તે જાણે ઈન્દ્રપત્ની પૂર્વદિશાના કેશસમૂહની મધ્યમાં રહેલું કંઈક દ્રષ્ટિગોચર થાય એવું ચૂડામણિ અર્થાત મસ્તકનું આભૂષણ ન હોય ! u૬૯ र दत्त्वाधिपत्य निखिलाचलानां, स्वदिग्गिरेः स्वर्गिरिचक्रिणेव ।
मौलिस्थले राजतपट्टबन्धो, विनिर्मितः स्फूर्जति सामिसोमः ॥७॥ सामिसोमः अर्धविधुः स्फूर्जति स्फूर्तिमियति । दीप्यते इत्यर्थः । 'पूर्व गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाददुकूलवल्लिरनिलान्दोलैरखेलहिवि' इति नैषधे । 'सामिघटिता अर्धनिष्पादिता' इति तद्वृत्तिः । उत्प्रेक्ष्यते--स्वगिरिचक्रिणा काञ्चनाचलचक्रवतिना शक्रेण । 'जाम्बूनदोर्वीधरसार्वभौम' इति नैषधे इन्द्राभिधानम् । स्वदिग्गिरेरात्मीयांशाशैलस्य उदयाभिधानस्य भूधरस्य निखिलाचलानां सकलभूमण्डलवर्तिपर्वतानामाधिपत्यमैश्वर्य राज्यं दत्त्वा मौलिस्थले शिरोमण्डले राजतो राजतस्याय रूप्यसंबन्धी पट्टबन्धो विनिर्मितः कृत इव बद्ध इव ॥
આકાશમાં અર્ધચંદ્ર શોભે છે. તે જાણે ચક્રવર્તી મેરુપર્વતે પોતાની દિશાના પર્વતને (ઉદયાચલને) સર્વ પર્વતોનું આધિપત્ય આપીને, તેના મસ્તકે ચાંદીને પટ્ટાબંધ બાંધ્યો ન होय ॥७ ॥
सुरेन्द्रदिग्भूधरमूर्ध्नि बिम्ब-मपूर्णमाभासत शीतभासः ।
खण्ड शिखायामिव सं हिकेय-दंष्ट्रान्तरायन्त्रणतोऽजनिष्ट ॥७१।। सुरेन्द्रस्य निर्जरनायकस्य दिक पूर्वाशा तस्या भूधर उदयपर्वतः तस्य मूनि मस्तके शिखरे शीतभासश्चन्द्रस्य अपूर्ण किचिन्यून किम[प्य]पूर्णनिर्गमनात्खण्ड बिम्बमण्डलमाभासत राजते स्म । उत्प्रेक्ष्यते-सै हिकेयस्य सिंहिकासुतस्य स्वर्भानोद्रष्ट्राणां दाढानाम