________________
४९२
हीरसौभाग्यम् [सर्ग ७ श्लो० ६७-६९ मिहिकामयूख हिमकर' तमेव गर्भ भूण दोहदलक्षण वहन्ती सती दधानेव । किं कृत्वा । रज्यता अनुरक्तीभवता । 'रज्यन्नखस्याङ्गुलिपञ्चकस्य' इति नैषधे। दयितेन प्राणप्रियेण पुरदरेण साक समं संसृज्य सङ्ग कृत्वा । 'निर्वापयिष्यन्निव संसिसक्षोः' नैषधे । 'सग कर्तुमिच्छोः' इति तद्वत्तिः । किंभूता हरित् । ताराणां निर्मलमौक्तिका नाम् । 'तारो निर्मलमौक्तिके' इत्यनेकार्थः। ताराणां राजतीयानां वा तारणां शुभ्र णां वा तारकरूपाणी वा विभूषणानामाभरणानां श्रीः शोभा यस्याः । 'प्रथममुपहृत्यार्थ तारैरखण्डिततन्दुलैः' इति नैषधे । तारकवाची तारशब्दः । अपरस्तद्वत् । अपरापि युवती राज्य निजवल्लभेन सम संगमनाद्गुर्विणी सती स्ववदने विशदिमान दधातीति रातिः स्थितिश्च ॥
કલેકાર્થ તારારૂપી આભૂષણો ધારણ કરતી ઈન્દ્રપત્ની પૂર્વદિશાએ મુખ ઉપર ઉજવલતાની શોભા ધારણ કરી, પ્રસન્ન થયેલા પોતાના પતિ ઇન્દ્રની સાથેના સંગમથી ચંદ્રરૂપ ગર્ભ ધારણ કરવાથી જાણે મુખ ઉપર પાંડુરતાને પોષતી ન હોય ! ૬ળા
आकण्ठमम्भःसु निमज्य काम-मन्त्रोऽलिशब्दैः कुसुदैरसाधि ।
विकाशलक्ष्मी ददती किमेषा, तत्सिद्धिरिन्दुद्युतिराविरासीत् ॥६८|| - कुमुदैः कैरवैश्चन्द्रविकाशिकमलैः आकण्ठ गलकन्दल मर्यादीकृत्य अम्भासु पानीयेषु निमज्य ब्रूडित्वा अलिशब्दमधुकरमधुरगुजारवैः कृत्वा काममन्त्रो मानसमनीषितप्रदा यिका विद्या असाधि साधित आराद्धः । उत्प्रेक्ष्यते-एषा प्रत्यक्षलक्ष्या इन्दुद्युतिश्चन्द्र चन्द्रिकारूपा तत्साधकस्याभीष्टविधायकमन्त्रस्य सिद्धिः फलनिष्पत्तिराविरासीकिमु प्रकटीभूतेव । तत्सिद्धिः किं कुर्वती । एषां कुमुदानां विकाशलक्ष्मी स्मेरताश्रिय विश्राणयन्ती ॥
લોકાર્થ : ચંદ્રવિકાસી કમલાએ આકંઠ સમુદ્રમાં ડૂબીને ભ્રમરોના ગુંજારવથી કામમંત્ર (ઈષ્ટદાયી મંત્રીને સાધ્યો હોય, તેથી કમલેને વિકાસલક્ષ્મી આપતી ચંદ્રની ચંદ્રિકારૂપ મંત્રસિદ્ધિ પ્રગટ થઈ ન હોય ! ૬૮
सान्द्रद्रुमोल्लासिनि पूर्वशैल-शृङ्गाछगणे चञ्चति चन्द्रलेखा ।
किंचिनिरीक्ष्या हरिदिङ्मृगाक्ष्या-चूडामणिः किं चिकुरान्तरस्था ॥६९।। ___ सान्द्रविनिद्राबल(निबिडदल)मण्डलकलितान्तरालसच्छायपादपपटलोल्लसनशीले पूर्व शैलस्य उदयाचलस्य शृङगारगणे शिखराजिरे उपरितन विभागे किंचिनिरीक्ष्या स्वरूप