________________
हीरसौभाग्यम् [सर्ग ७ श्लो० ६३-६५ क्वचिद् गुप्तस्थाने गच्छन्त्या दिनश्रियो दिवसलक्ष्म्यास्तारा एव ज्योतीरूपाणि वा मुक्ताभरणानि मुक्ताफलमयानि भूषणानि द्विषत्तया वैरिभावेन रजन्या रात्र्या आच्छिद्य हठादल कृत्वा आददिरे उद्दाल्य गृहीतानीव । कस्मिन्सति । कान्ते अर्थादिनश्रिया भर्तरि भास्करे अम्बुनिधौ समुद्रपयःप्लवे निमग्ने बडिते सति ।
શ્લેકાર્થ પિતાને પતિ સૂર્ય પશ્ચિમ સમુદ્રમાં જવાથી, અશરણ બની ગયેલી કેઈપણ ગુપ્તરથાને સંતાઈ જવાની ઈચ્છાથી નાસી જતી એવી દિવસલક્ષ્મીના તારાઓ રૂપી મોતીઓનાં આભૂષણો, વેરભાવને ધારણ કરતી રાત્રિએ જાણે છીનવી લીધાં ન હોય. ૬ મા
स्वाकूलिनीकूलविलासिनीनां, प्रदोषविश्लेषिविहंगमीनाम् ।
विलोचनोद्भूतपयःपृषद्भिः, किमम्बर तारकित पतद्भिः ॥६४॥ स्वःकूलिन्या गगनगङ्गायाः कूले तटे विलसन्ति । 'लस श्लेषणक्रीडनयोः, इति धात्वर्थत्वेन आश्लिष्याश्रित्य तिष्ठन्ति स्वैर भा वा क्रीडन्तीति वा। इत्येवंशीलास्तादृशीनाम् । तथा प्रदोषे दोषामुखे विश्लेषो निजप्रियेण सम वियोगोऽस्त्यासां तासां विहगमीनां पक्षिणीनाम् । अर्थाच्चक्रवाकीनाम् । 'विहगयोः कृपयेव शनैर्ययौ रविरहवि. रहध्रुवमेदयोः' इति रघुवंशे । 'दिवसावसाने निश्चयेन वियोगयोः विहगयोश्चक्रवाकीचक्रवाकयोः कृपयेव' इति तवृत्तिः। 'पुमान् स्त्रिया,' 'स्त्रिया सहोक्तौ पुमान् शिष्यते न तु स्त्री' इति केवलविहगशब्दः । तथा 'निजपरिवृढ गाढप्रेमा रथाङ्गविहंगमी' इति नैषधे विहंगमीशब्दः । 'स्वर्गिगङ्गारथाङ्गः' इति काव्यकल्पलतायाम् । विलोचनेभ्यः नेत्रेभ्य उद्भूतानां वियोगातिदुःखोदयादाविर्भूतानाम् । नेत्रनिःसृतानामित्यर्थः। पयसामश्रुजलानां पृषद्भिबिन्दुभिः । 'बिन्दो पृषत्पृषतविप्लुषः' इति हैम्याम् । उत्प्रेक्ष्यते-पतद्भिः शरद्भिः अर्थात् गगनाङ्गणमागत्य तिष्ठद्भिः सद्भिः अम्बरमाकाश तारकित तारकाः संजाता अस्मिन्निति तादृश तारककलापकलित कि जात बभूवेव ॥
આકાશગંગામાં પોતપોતાના પતિ સાથે ક્રીડા કરતી અને રાત્રિમાં વિયોગજન્ય દુઃખથા પીડિત થયેલી ચક્રવાકીઓનાં નયનમાંથી પડતાં અમુજલનાં બિંદુઓ જાણે આકાશમાં તારા રૂપે બની ગયા ન હોય ! ૬૪
स्वां निष्ठितां प्रेक्ष्य सुधां सुधाशैः, पुनः कृतेऽस्या इव मध्यमानात् ।
सुधाम्बुधेयॉम्नि समुच्छलद्भि-म्भःकणैस्तारभरैर्बभूवे ॥६५॥ सुधाम्बुधः क्षीरसमुद्रात्सुधाया उत्पत्तिस्थानत्वात्कविसमये प्रसिद्धत्वाच्च सुधा