________________
४८४
हीरसौभाग्यम्
[सर्ग ७ श्लो० ५०-५२
वाल्लीलां क्रीडाम् । 'क्रीडा लीला च नर्म च' इति हैम्याम् । सृजन्याः कुर्वन्त्याः स्वस्य जनकस्य पितुर्ग नस्तेभ स्करस्य अङ्कादुत्सङ्गात् रभसेनौत्सुक्येन च्युतायाः पतितायाः यमस्य शमनस्य जामेभगिन्या अलभत । शमनस्वसुः शिशुत्वम् ‘दिवसकराङ्कतले चला लुण्ठन्ती' इति नैषधे । यमुनायाः पयःप्रवाहैः सलिलौघैरिव व्योममहीमण्डले निर्भर भृते । कालिन्द्याः कृष्णजलत्वेनेयमुत्प्रेक्षा ||
બ્લેકાર્થ આકાશ અને પૃથ્વી અંધકારથી વ્યાપ્ત બની. જાણે પિતાના પિતા સૂર્યના ઉસંગમાં બાલભાવે ક્રીડા કરતી, ઉસુકતાથી ઉસંગમાંથી પડી ગયેલી યમુના, તે યમુનાના પ્રવાહથી જાણે આકાશ અને પૃથ્વી વ્યાપ્ત બની ગયાં ન હોય ! ( યમુનાનું જલ શ્યામ હોવાથી અંધકાર સાથે ઘટાવવામાં साव्यु छ. ) ॥५०॥
रथाङ्गनाम्नां दिवसावसाने, वियोगभाजां सममङ्गनाभिः ।
स्फुरद्विपादानलधूमलेखा, मन्ये तमिस्रा बहुलीबभूवुः ॥ ५१ ॥ तमिस्रा अन्धकाराणि । तमिस्रशब्दः स्त्रीक्लीवलिङ्गयोः । बहुलीबभूवुः निबिडा नीरन्ध्राः संजायन्ते स्म । तत्राहमेव मन्ये विचारयामि । दिवसावसाने दिनपर्यन्ते संध्याया एवारभ्य अङ्गनाभिः स्वीयवल्लभाभिः रथाङ्गविहंगमीभिः सम सार्ध वियोगभाजां परस्परविश्लेषकलितानां रथाङ्गनाम्नां चक्रवाकानां स्फुरन्त्यः प्रकटीभवन्त्यः विषादः खेदः स एवानलो हुताशनः तस्य धूमानां लेखाः श्रेणय इव ॥
બ્લેકાર્થ આકાશ અને પૃથ્વી ગાઢ અંધકારથી વ્યાત બન્યાં, હું માનું છું કે સયાસમયથી આરંભીને પિતાની વલ્લભાઓ સાથેના વિયોગથી દુઃખી થયેલા ચક્રવાકેના વિષાદરૂપી અગ્નિ ( વિરહાનલ)ના ધુમાડાની જાણે શ્રેણી ન હોય ! પલા
गते गवां स्वामिनि नाभ्युदीते, राजन्यथाराजकवद्विभाव्य । स्वैरप्रचारेण जगत्समग्र-मुपाद्रवदस्युरिवान्धकारः ॥ ५२ ॥
अन्धकारः स्वैर स्वेच्छया प्रचारेण द्यावाभूम्योः संचरणेन दस्युरिव प्रत्यर्थीव चौर इव वा समग्र जगत्सर्वमपि भुवनमुपाद्रवदुपद्रवति स्म । किं कृत्वा । गवां किरणानां पृथिवीनां च स्वामिनि नायके भानौ भूधने च । 'गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे' इति कल्याणमन्दिरस्तवने । क्वापि कुत्रापि गते अस्तमिते परजनपदे प्रयाते मृते वा सति अथ पश्चात् राजनि चन्द्रे पट्टधरनृपे च नाभ्युदीते नोदय प्राप्ते पट्टे स्थापिते च । अत एवार कवन्निःस्वामिकमिव जगद्विभाव्य निरीक्ष्य । 'हा हा महाकष्टमराजक