SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ सर्ग ७ श्लो० ३४-३५] हीरसौभाग्यम् ४७७ पिकाञ्चुकूजुः सहकारकुब्जे, रत्या रतश्रान्ततया शयालोः । जगज्जयस्यावसर जिगीषोः, संसूचयन्तीव रतीशभर्तुः ॥ ३४ ॥ सहकारकुजे माकन्दपादपकानने पिकाः कोकिलाश्चुकूजुः शब्दायन्ते । प्रोनिद्रसा. न्द्रामन्दमाकन्दमञ्जरीपुजास्वादनमधुरध्वनिप्रपञ्चपञ्चमगीतिमुच्चरन्ति । उत्प्रेक्ष्यते-स्वपल्या रत्या सम रतेन संभोगाभोगविनोदेन श्रान्ततया प्राप्तश्रमत्वेन सुरतसंजातखेदेन शयालोनिद्राशीलस्य । तथा जिगीषोस्त्रिजगज्जेतुमिच्छोः रतीशः कामः स एव भर्ता प्रभुस्तस्य जगतां तात्स्थ्यात्तद्यपदेशानाकिनागनागराणां जयस्य पराभवनप्रविधानस्यावसर व्यतिकर वेलां प्रस्ताव संसूचयन्ति कथयन्तीव । यतो नक्त प्रायः सर्वेऽपि संसारिणो जनाः स्मरवशा जायन्ते इति ॥ इति संध्यावर्णनाधिकारे सर्वविहगवि. रुतादिवर्णनम् ॥ કાર્થ આમ્રવનમાં કેયલો મધુર ટહુકાર કરે છે. શા માટે ? પિતાની પત્ની રતિની સાથે કામક્રીડા કરવાથી શ્રમિત થઈને શયન કરી રહેલા જગતવિજેતા કામદેવને જગત પર વિજય મેળવવાને આ અવસર જાણે સૂચિત કરતી ન હોય ! પ્રાયઃ કરીને સર્વ સંસારીજીવો રાત્રિમાં કામાતુર બને છે. ૩૪ समुल्ललासाभ्रपथेऽथ संध्या-रागो विरागीकृतचक्रचक्रः । पञ्चेषुणा विश्वजिगीषुणेय, प्रादायि शोणीव नवोपकार्या ॥३५॥ अथ संध्यासमयाविर्भावानन्तरमभ्राणां मेघानां पथे मार्गे । नभोगणे इत्यर्थः । संध्यारागः । रवेरस्तगमनानन्तर प्रायो व्योमागणे दिशि दिशि रक्तिमा प्रादुर्भवति । संध्यासमये जातत्वात्संध्यारागः समुल्ललास सम्यग्दृश्यमानः स्फुरति स्म । किंभूतः । विरागीकृतानि वियोगव्याकुलाङ्गीभवनत्वेन सदुःखानि कृतानि चक्राणां चक्रवाकानां चक्राणि वृन्दानि येन । उत्प्रेक्ष्यते--विश्वानि त्रीणि सप्त चतुर्दश वा एकवि: शतिर्वा जगन्ति भुवनानि जिगीषुणा पराभववितुमिच्छुना पञ्चेषुणा मदननृतिना इयमेषा संध्यारागलक्षणा प्रत्यक्षा शोणी रक्ता नवोपकार्या नवीनपटकुटी प्रादायि दत्ता। 'रचयति रुचिः शोणीमेतां कुमारितरारवैः' इति नैषधे ॥ શ્લોકાઈ સંધ્યા સમય થયા બાદ, ચક્રવાકોને વિયોગથી વ્યાકુળ કરનાર એ સંધ્યારાગ આકાશમાં પ્રગટ થયે, તે જાણે જગતને જીતવાની ઈચ્છાવાળા કામદેવરૂપી રાજાએ રકતવણ્ય પદકુટી અર્પણ
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy