________________
४७६
हीरसौभाग्यम्
[सर्ग ७ श्लो० ३१-३३
હોય છે ત્યાં જાય છે. તે જાણે મૃગાક્ષી સ્ત્રીઓનાં. અંજનયુકત મનોહર લોચનવડે પરાભવ પામવાથી લજિજત થઈને કેટરોમાં ભરાઈ જતા ન હોય! ૩૧
दोषामुखेन द्विषतेव वाधौं , क्षिप्तं समीक्ष्य स्वविपक्षमर्कम् ।
शत्रोरगोत्रीभवनादिवाभ्र-भुवोच्दाभ्राम्यत घूकलोकैः ॥ ३२ ॥ घुकलोकैः कौशिकशकुन्तसंकरैरभ्रभुवोर्यावापृथिव्योर्मुदा स्वशात्रववारिजबान्धवास्तविभावनाभ्युदितप्रमोदेन अभ्राम्यत इतस्ततो बंम्रम्यते स्म । 'आलोकतालोकमुलूकलोकः' इति नैषधे । तथा 'आकाशे तमसि सममिते कोकलोके सशोके' इति नाटकशास्त्रेऽपि पक्षिशब्दानां पुरः समूहवाची लोकशब्दो दृश्यते, तेन घूकलोकः इति प्रयोगः । उत्प्रेक्ष्यते शत्रोरगोत्रीभवनात् स्वीयविपक्षजगञ्चक्षुषो वंशस्य नानोऽपि वा अभावो जात इतीव मुदा भ्रान्तम् । किं कृत्वा । द्विषतेव शात्रवेनेव दोषामुखेन प्रदोषेण स्वविपक्ष निजप्रत्यर्थिन भास्कर वाधौ अगाधपयोधिपयोमध्ये क्षिप्त पातित समीक्ष्य दृष्ट्वा ॥
શ્લોકાઈ નિા સમયે ઘૂવડ આકાશ-પૃથ્વીમાં આમતેમ ભમે છે. શાથી ? પિતાના શત્રુ સર્યને તેના નિશારૂપ શત્રુએ અગાધ સમુદ્રમાં ફેંકી દીધેલે જઈને શત્રુ-નિર્વશ થવાથી જાણે અત્યંત નવ થયેલા ઘુવડે આમતેમ ઘુમતા ન હોય! !રા
कपोतपालीतटसंनिविष्टा, हुंकुर्वते क्वापि कपोतपोताः ।
शोच्यां दशां प्राप्तमुदीक्ष्य मित्र-मुदीयमानान्मनसीव दुःखात् ॥३३॥ कापि कुत्रापि स्थाने कपोतपाल्या विटङ्कस्य । 'कपोतपाली विटङ्कः' इति हैम्याम् । तटे एकत्र प्रान्तप्रदेशे संनिविष्टाः संस्थितिं कुर्वाणाः सन्तः कपोतपोताः पारावतबालका हुँकुर्वते हुंकार कुर्वन्ति । कपोतानां कूजित प्रायः एवंविधमेव श्रयते । यदुक्त कालिदासविना विभातवर्णनाधिकारे-'परिणतरविगर्भव्याकुला पौरुहुती दिगपि घनकपोती हुंकृतैः कुन्थतीव' इति । उत्प्रेक्ष्यते--शोच्यां शोचनाही दशामस्तलक्षणामवस्थां प्राप्तमासादित मित्र सूर्य सुहृदं च उदीक्ष्य दृष्ट्वा मनसि स्वचेतसि उदीयमानात् प्रकटीभवतो दुःखादिव ॥
લેકાર્થ
કોઈ કોઈ સ્થાને તળાવના કિનારે બેઠેલાં પારેવાં હુંકાર કરે છે. તે જાણે શોચનીય દશાને પામેલા પિતાના મિત્ર સૂર્યને જોઈને મનમાં દુઃખી થઈને હુંકાર કરતા ન હોય !