________________
४७४
हीरसौभाग्यम्
[ सर्ग ७ श्लो० २७-२९
कुर्वाणाः शान्तिकमन्त्रपाठानुच्चरन्तीति लोकरूढिः । 'सूत्रकण्ठः शुके विप्रे खञ्जरीटकपोतयोः' इत्यनेकार्थतिलकः ॥
શ્લાકા
દિવસના અવસાન સમયે માળાની સમીપે રહેલા પેપર અતિશય અવાજ કરે છે. શા માટે ? જગચક્ષુ એવા સૂર્યની અસ્તરૂપ આપત્તિને જોઈને બ્રાહ્મણુરૂપ એવા આ પે।પટે કરતા ન હોય ! ારા
જાણે શાંતિપાઠ
वियन्मणीवल्लभ विप्रयुक्तां पाथोजिनीं मुद्रितवक्त्रकोशाम् । रसार्पणप्रीतहृदस्तदानी - मालापयन्तीक खैर्द्विरेफाः || २७
तदानीं संध्यायां सूर्येऽस्तमिते द्विरेफाः मधुकरा रवैः स्वगुञ्जारवैः शब्दैः कृत्वा पाथोजिनी पद्मिनीम् । उत्प्रेक्ष्यते - आलापयन्तीव शोकापनोद मनाक् प्रणेतुं वादयन्तीव । किंभूता द्विरेफाः । रसानां निजोज्जृम्भमाणपाथोजनिर्यन्मकरन्दानामर्पणेन पूर्वप्रदानेनाकण्ठपानोपकार करणेन प्रीतमतीव हृष्ट हृद् मनो येषाम् । किंभूतां पद्मिनीम् । वियमणी गगनरत्न' सूर्यः । 'भानुर्नभोहर्मणी' इति हैम्याम् । स एव वल्लभः प्राणप्रियो भर्ता पद्मिनीपतित्वेन तस्य । तेन विप्रयुक्तां प्राप्त वियोगाम् । विरहिणीमित्यर्थः । पुनः किंभूताम् । अत एव मुद्रितो मुकुलीकृतः संकोचितः पिहितो वा वक्त्रसदृशः कोशः कुड्मलो यस्यास्ताम् । पूर्वप्रीणितस्वजनादिः कामपि प्रियवियोगिनीं कामिनीमागत्य सुखदुःखादिवार्ताप्रश्नेनालापयतीति रीतिः ॥
લેાકા
સધ્યાસમયે ભ્રમરા ગુજારવા કરે છે, શા માટે ? વિકસ્વર કમલાના રસનું આ પાન કરવાથી સંતુષ્ટ થયેલા ભ્રમરા, પેાતાના ગુ’જારવ કરીને, પેાતાના સ્વામી ના વિયેાગથી દુ:ખી બનેલી અને તેથી જ સંકાચાઈ ગયેલા મુખકાશવાળી કમલિનીને જાણે આશ્વાસન માટે ખેલાવતા ન હોય ! ॥૨૮॥
सरोजिनी कोशकुचौ निपीडया - घरच्छदे पीतरसैः स्ववातात् । मीलन्मुखी कम्पमिषान्निषेध्धी, जहे महेलेव युवद्विरेफैः ॥ २९ ॥
युवद्विरेफैस्तरुणभृङ्गः सरोजिनी पद्मिनी जहे । केव । महेलेव । यथा युवभिर्युवती त्यज्यते । किं कृत्वा । कोशौ मुकुलावेव कुचौ निपीड्य मर्दयित्वा । किंभूतैद्विरेफैः ग्रुवभिश्च । अधरच्छदे अधस्तनपत्रे ओष्ठदले च । निपीतो नितरामास्वादितो रसो मकरन्दोंSमृतरसो यैः । स्वमाह संध्यामधरोष्टलेख्याम्' इति नैषधे । 'अधस्तनोऽधरः' इति तद्वृत्तिः । किंभूता । स्ववातान्निजपक्ष पवनाद्यः कम्पस्तन्मिषान्निषेध्धी निषेधनशीला स्व निरव किंभूता । मीलन्मुखी संकुचद्वदना ॥