________________
सर्ग ७ श्लो० २५-२७] हीरसौभाग्यम्
४७३ सवृक्षोन्मुखबहिणानि' इति रघुवंशे । तथा 'फलबाभ्यामिनचु'। 'फलिनः, बहिणः' इति प्रक्रियाकौमुद्याम् । शिखाः शाखाः शिश्रियिरे भजन्ते स्म । उत्प्रेक्ष्यते-विश्वोपकर्ता जगजनानां प्रबोधालोककारकत्वेनोपकारकारकः तथा सगोत्रो नोऽस्माकमाकाशचरत्वेन सदृश गोत्र नाम यस्य स सगोत्रः । 'गोत्रसंज्ञानामधेयाख्याह्वा' इति हैम्याम् । खगो भानुभाली । 'सूर्योऽर्कः किरणो भगो ग्रहपुषः पूषा पतङ्गः खगः' इति सूर्याभिधानानि हैम्याम् । क्व कुत्र स्थाने गतः यातवान् । तस्य खगस्य ईक्षार्थमालोकनार्थमिवोच्चैः उपरितनशिखासु अस्थुः स्थिताः ॥
લોકાર્થ સંધ્યા સમયે પક્ષીઓ, આવાસયોગ્ય વિકસ્વર વૃક્ષની ટોચને આશ્રય કરે છે. શા માટે? જગતને ઉપકારી અને (એક જ આકાશમાં સાથે રહેવાને કારણે ) અમારે સગોત્રી એવો સૂર્ય ક્યાં ગો?’ તેને જોવાને માટે જાણે પક્ષીઓ ઉચ્ચસ્થાને રહ્યા ન હોય ! ભારપા
मरन्दनिस्पन्दितमालताली:, सायं स्म शीलन्ति कलापिमालाः ।
प्रावृट्पयोदस्य धियेव मंत्र्या-दुपेयुषोऽभ्रान्मिलितुं क्षमायाम् ।। २६ ॥ कलापिमाला मयूरमण्डली साय संध्यासमये मरन्दानां विकसितकुसुममकरन्दानां नितरामतिशायितया स्पन्दः क्षरणमस्त्यासु तादृश्यस्तमालास्तापिच्छास्तालीवृक्षविशेषाः [तान्] शीलन्ति श्रयन्ते । उत्प्रेक्ष्यते-अभ्रादाकाशान्मैव्यात्सौहार्दान्मिलितुमर्थादात्मनो मिलनार्थ क्षमायां भूमण्डले उपेयुषः समागतस्य प्रावृट्पयोदस्य वार्षिकमेघस्य धिया बुध्ध्या । भ्रमादिवेत्यर्थः ॥
લોકાર્થ સંધ્યા સમયે મયૂરમંડલી, જેમાં પુષ્પોના રસનું નિરંતર અવણ થાય છે તેવાં તમાલ, તાપિચ્છ અને તાલવૃક્ષને આશ્રય કરે છે. શા માટે ? મિત્રીભાવથી મળવા માટે આકાશમાંથી પૃથ્વી ઉપર આવેલા વર્ષાઋતુના મેઘની ત્રાન્તિથી જાણે તમાલાદિ વૃક્ષનો આશ્રયે કરતી ન હોય ! પારકો
विकालवेलामनु सूत्रकण्ठा, अनीनदन्नीडसनीडभाजः ।
दृष्ट्वा जगच्चक्षुरनिष्टमेते, पठन्ति किं शान्तिकमन्त्रपाठान् ॥ २७ ॥ विकालवेलां दिवसावसानसमयमनु लक्ष्यीकृत्याव्यालोक्येत्यर्थः । 'दिनावसानमुत्सूरो विकालसबली अपि' इति हैम्याम् । सूत्रकण्ठाः शुकाः अनीनदन् अतिशयेन शब्दायन्ते स्म । किंभृताः । नीडानां कुलायानां सनीडं समीप भजन्तीति । उत्प्रेक्ष्यते-जगतां विश्वषां प्राणिनां सर्वमार्गाणां स्वेषां परेषां वा सर्वपदार्थानां दर्शकत्वाच्चक्षुरिव लोचनमिव तस्य जगच्चक्षुषो भानोरनिष्टमस्तलक्षणामापदं दृष्ट्वा एते द्विजाः किं शान्तिकान् शान्तिकारकान्मन्त्रपाठान्मन्त्रोच्चारान्पठन्त्युच्चरन्तीव । ब्राह्मणा हि विपत्तौ विघ्ने वा शान्तिक