________________
४७२
हीरसौभाग्यम् : [सर्ग ७ श्लो० २२-२५ પગ તાજા રંગેલા છે એવી પાર્વતીએ રોષથી પદપ્રહાર કર્યો, તેથી લાલ બનેલી ઈશ્વરના મસ્તકે રહેલી જાણે ચંદ્રલેખા-ચંદ્રકલા ન હોય ! અર્થાત વિષ્ણુને મળવા જતા શંભુના મસ્તકની ઉપર રહેલી રક્તવર્ષીય ચંદ્રકલા જાણે ન હોય ! ારા
द्वीपे परस्मिन्नितरोऽस्ति कश्चि-दस्य व्रतीन्द्रस्य वशी सदृक्षः ।
दिदृक्षयान्तः कुतुकादितीव, पतिस्त्विषां याति परत्र खण्डे ॥ २३ ॥ त्विषां पतिर्भानुमान् परत्र अन्यस्मिन् खण्डे द्वीपे प्रदेशे वा याति । उत्प्रेक्ष्यतेअन्तश्चेतोमध्ये कुतुकात्कौतूहलादित्यमुना प्रकारेण दिदृक्षया द्रष्टुमिच्छयेव । इति किम् । यदन्यस्मिन्नपरस्मिन्द्वीपेऽस्य हीरविजयनाम्नो व्रतीन्द्रस्य सूरेः सदृक्षस्तुल्य इतो. ऽन्यः कश्चिद्वशी जितेन्द्रिय आस्ते न वेति ॥
લેકાર્થ
સૂર્ય બીજા દ્વીપમાં જાય છે તે શા માટે? અન્ય દ્વીપમાં હીરવિજયસૂરિ જેવા બીજા કોઈ આચાર્ય હશે કે નહીં ? જાણે આવા કૌતુકથી જોવાની ઈચ્છાવડે જતો ન હોય ! પારકા
अनक्षिलक्ष्यीभवति स्म भास्वा-निजाङ्गनायामनुरागिभावात् । कचिन्निगूढं वरुणेन रोषा-दिवैष पाशेन नियन्त्र्य मुक्तः ॥ २४ ॥
भास्वान्मार्तण्डः अक्षणोनयनयोलक्ष्यो दृश्यः अक्षिलक्ष्यः दृग्गोचरो नाक्षिलक्ष्योऽनक्षिलक्ष्यः स भवति स्मेति अनक्षिलक्ष्यीभवति स्म । अदृश्यो जातः । अस्त गत इत्यर्थः। उत्प्रेक्ष्यते--निजाङ्गनायां पश्चिमदिङ्मृगलोचनायाम् । 'वरुणगृहिणीमाशामासादयन्तममुं रुची' इति नैषधे । अनुरागः प्रेमातिरेकोऽस्त्यस्मिन्वा दृग्भावश्चित्ताभिप्रायो यस्य अनुरक्तत्वेन वा रोषात्कोपोदयात्क्वचित्कुत्रापि प्रदेशे वरुणेन प्रतीचीपतिना पाशेन बन्धनग्रन्थिना नियन्त्र्य बध्ध्वा निगूढगुप्तस्थाने मुक्तः स्थापितो रक्षित इव ॥ इति सूर्यास्तवर्णनम् ॥
લેકાર્થ સૂર્ય અદશ્ય થયો! અસ્ત પામ્યો ! “સૂર્ય પશ્ચિમદિશારૂપી પોતાની પ્રિયામાં અનુરાગી છે. આ પ્રમાણે જાણવાથી તે દિશાના અધિપતિ વરુણદેવે રેષથી પાલવડે બાંધીને જાણે કોઈ સ્થાને છુપાવી દીધે नहोय ! ॥२४॥
आवासविस्मेरमहीरुहाणां, सायं शिखाः शिश्रियिरे शकुन्ताः ।
विश्वोपकर्ता व गतः सगोत्रः, खगास्तदीक्षार्थमिवास्थुरुच्चैः ॥ २५ ॥ शकुन्ताः पक्षिणः साय सध्यासमयमनुलक्ष्यीकृत्य आवासनमावासस्तदर्थम् । निशायां निवस्तुमित्यर्थः। आवासार्हा वा विकसिता ये महीरुहा पादपास्तेषाम् । 'आवा