________________
सर्ग ७ श्लो० २०-२२ ] हीरसौभाग्यम्
४७१ શ્લોકાઈ સૂર્યમંડલને ચતુર્થભાગ સમુદ્રના પ્રવાહમાં ડૂબી ગયો. શા માટે ? હીરવિજયસૂરિના પ્રતાપની તુલ્યતા પ્રાપ્ત કરવા માટે ભયથી જાણે સર્ય ધીમેધીમે સમુદ્રમાં ઝંપાપાત કરતો ન હોય ! પર
अम्भोधिमध्येऽपितबिम्बमम्भो-जिनीवरस्य स्फुरति स्म सायम् ।
अतादृशी प्रेक्ष्य दशां प्रियस्य, किमब्धिमज्जद्दिनलक्ष्मिभालम् ॥ २१ ॥ सायं संध्यासमये अम्भोधेः समुद्रस्य मध्ये अम्भोजिनीवरस्य पद्मिनीपतेर्भानोरधित भावप्रधाननिर्देशादर्धत्वं जातमस्मिन्नित्यर्धित बिम्ब मण्डलम् । अर्धमब्धिमध्ये मग्नम्, अर्ध च बहिश्यमान चेत्यर्थः । स्फुरति दीप्यते स्म । उत्प्रेक्ष्यते-प्रियस्य स्वभर्तुर्भानोरतादृशीं विश्वशोच्यामस्तलक्षणां दशामवस्थां प्रेक्ष्य दृग्गोचरीकृत्य । अर्थातदुःखातिरेकादब्धौ मजन्त्याः पतन्त्या ब्रूडन्त्या वा दिनलक्ष्म्या वासरश्रिया भाल ललाटमिव ॥
લેકાર્થ સંધ્યા સમયે અડધો પશ્ચિમ સમુદ્રમાં અને અડધે બહાર, એવો સૂર્ય શોભે છે. તે જાણે પોતાના પતિ સૂર્યની વિશ્વશોચનીય દશા જોઈને અતિદુખથી સમુદ્રમાં ઝંપાપાત કરતી દિનલક્ષ્મીનું લલાટ ન હોય ! રિલા
भानोर्बभौ मण्डलखण्डमब्धौ, गन्तुः पुरारेमिलितुं मुरारिम् ।
मृगाङ्कलेखेव सरोषचण्डी-सालक्तपादाहतिशोणितश्रीः ॥ २२ ॥ अब्धौ समुद्र भानोः सूर्यस्य मण्डलस्य बिम्बस्य खण्ड शकलम् । बिम्वचतुर्थाशमात्रमित्यर्थः । बभौ शोभते स्म । उत्प्रेक्ष्यते-मुरारि नारायण मिलितु गन्तुर्गच्छतीति गन्ता तस्य पुरारेः शंभोमगाइकलेखेव शिरःशेखरपीयूषमयूखकलेव शिरःशशिकलेव। किंभूता । सरोषा कुतश्चित्कारणात्कोपकलिता या चण्डी अत्यन्तकोपना कामिनी पार्वती च । 'चण्डस्त्वत्यन्तकोपनः' इति हैमीवचनात् । स्त्री चेञ्चण्डी । 'दुर्गा चण्डी सिंहयाना मृडानी' इत्यपि हैम्यां पार्वतीनामानि । तस्याः सालक्तकेन सह यावकरसेन वर्तते यस्तादृशः पादश्चरणस्तस्याहत्या शिरसि प्रहारेण शोणत्व संजातमस्यामिति शोणिता रक्तीभूता श्रीर्वपुर्लक्ष्मीर्यस्याः। कथंचित्सुरतकलहे कुपितां पार्वतीमनुनेतु पादपतितस्य शंभोः शिरसि कोपात्पादप्रहारः प्रदत्तः, तदवसरे चरणा लक्तकरसे लग्ने रक्ता जातेत्यर्थः ॥
કલેકાર્થ વળી, પશ્ચિમ સમુદ્રની મધ્યમાં રહેલું અર્ધ સૂર્યમંડલ શોભે છે. તે જાણે કોઈપણ કારણથી ગુસ્સે થયેલી પાર્વતીને મનાવવા માટે ચરણમાં નમેલા શંભુના મસ્તકમાં, અલતાના રસથી જેના