SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४७० हीरसौभाग्यम् [सर्ग ७ श्लो० १८-२० ___ पयोधिपूरे पश्चिमसमुद्रसलिलप्लवे अम्बुजबन्धोः पद्मसुहृदो दिवाकरस्य बिम्ब मण्डल स्मेरारुणाम्भोरुहवद्विकसितरक्तकमलमिव विभाति । नीरधिनीरोपरि विकचकोकनदसदृश दृश्यते इत्यर्थः । किंभूतम् । उत्तुङ्गो गगनाङ्गणालिङ्गी यस्तारङ्गस्तरङ्गाणां समूहस्तारगः । अत्र समूहार्थेऽण् । कल्लोलकलापः । 'वार वार तारतरस्वरनिजितगङ्गातारगाम्' इति पद्मसुन्दरनिर्मितभारतीस्तवने । तस्य शिखामग्रभागमवलम्बते आश्रयतीति एवं शीलम् । पुनः किंभूतम् । किंजल्कानां कमलकेसराणां लीला विलासस्तद्वदाचरितो रश्मिराशिः करनिकरो यस्य ॥ કાર્થ ઊંચા ઉછળતા જલતરંગવડે આકાશને સ્પર્શીને રહેવું, તેમજ કમલેની કેસરાની જેમ ક્રિીડારૂપ બનેલું સૂર્યમંડળ, જેમ સમુદ્રની જલસપાટી ઉપર લાલ કમલ શોભે તેમ, પશ્ચિમ સમુદ્રના જલની સપાટી ઉપર શેભે છે. ૧૮ पूरे समुद्रस्य बभस्ति बिम्ब, राजीविनीजीवितनायकस्य । पयोधिपल्यङ्कतले शयालो-रुल्लासि चक्र किमु चक्रपाणेः ॥ १९ ॥ समुद्रस्य पश्चिमवीचिमालिनः पूरे पयःप्लवे राजीविनीनां पद्मिनीनां जीवितनायकस्य प्राणवल्लभस्य बिम्बौं मण्डल बभस्ति भासते । 'वररजनीकरकान्ते चित्राभरणे निशानभःसदृशे । तव नृप मजनभवने सविता नाभाति परमश्रीः ॥' इति चम्पूकथायाम् । 'तत्र द्वितीयराजार्थे xनिशानस्तेजस्विभिर्बमस्ति' इति तट्टिप्पनके । उत्प्रेक्ष्यतेपयोधिः समुद्र एव पल्यङ्कः शय्या तस्य तले शयालोः शयनशीलस्य । 'दासाह पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ' इति हैम्याम् । चक्रपाणेविष्णोरुल्लासि प्रोल्लसनशील चक्र किमु । विस्फुरत्सुदर्शन नाम रथाङ्गमिव ॥ दार्थ પશ્ચિમ સમુદ્રના જલપ્રવાહમાં પદ્િમનીના પ્રાણવલ્લભ–સૂર્યનું બિંબ શોભે છે, જાણે તે સમુદ્રરૂપી પલંગમાં શયન કરી રહેલા વિષ્ણુનું સુદર્શન નામનું ચક્ર ન હોય ! ૧૯ खण्डेन चण्डद्युतिमण्डलेन, न्यमज्जि पूरे मकराकरस्य । सरेर्महःसाम्यकृतेऽब्धिझम्पा-सृजा शनैर्निष्पततेव भीतेः ॥ २० ॥ चण्डद्युतेर्भास्करस्य मण्डलेन खण्डेन शकलेन चतुर्थभागेन कृत्वा मकराकरस्य समुद्रस्य पूरे न्यमजि ब्रूडितम् । मण्डलचतुर्था शो जलधिमध्ये निमग्न इत्यर्थः । उत्प्रेक्ष्यते--सूरेहीरविजयसूरीन्द्रस्य महसां भूयसां प्रतापानां साम्यकृते तुल्यत्वप्राप्त्यर्थमब्धौ समुद्रे झम्पां पयःसंपातपाटव सृजति करोति इत्यब्धिझम्पासूटू तेनार्केण भीतेः स्वान्ते भयवशात् शनैर्लघु निष्पततेव ॥ x भावल्युडन्तनिशानशब्ददार्श आद्य जिति भावः।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy