________________
सर्ग ७ श्लो० ११-१४ ]
striभाग्यम्
४६७
क्षतामाकलयन्ति तेनेतस्ततो भ्रमणं कुर्वते । तदुपर्युत्प्रेक्षा । उत्प्रेक्ष्यते - शरलक्ष्म्या नेत्रेषु स्त्रीस्वभावाच्चञ्चललोचनेष्विव । 'भवत्कृते खञ्जनमञ्जुलाक्षि' इति बिल्हणपञ्चशि कायाम् । पुनः केषु सत्सु । स्मेराणां विनिद्राणां सरोजानामरविन्दानां पौष्पेषु परागेषु निष्पातिनो निपतनशीला आगत्य मकरन्दपानकृते निलीय स्थितिं कुर्वाणाः तथा स्वच्छन्दमाकण्डमकरन्दास्वादनोन्मदिष्णुभवदमन्दानन्द शब्दायमाना गुञ्जन्तः गुञ्जारव विदधानानां मधुकृतां भ्रमराणां व्रजाः समूहास्तेषु सत्सु । उत्प्रेक्ष्यते - अस्याः शरलक्ष्म्या बन्दिषु मङ्गलपाठकेष्विव । पुनः कासु सतीसु । उद्दामाः परिपाकप्राप्तत्वेन मनोरमा ये कलामकाः कलमशालयः । 'कलमस्तु कलामकः' इति हैम्याम् । तेषामोघाः समूहास्तैरवदाता उज्ज्वलाः । केदाराणां वसुंधरा भूमयस्तासु सतीषु । उत्प्रेक्ष्यते—शरदिन्दिरायाः पटीषु उत्तरीयनिवसनेष्विव । पुनः कासु सतीषु । विविधासु श्वेतरक्तनीलपीतकृष्णाद्यनेकविधासु । तथा लीना मधुपानकृते मध्ये प्रविश्य स्थिताः शिलीमुखा भृङ्गा यासु तादृश्यासु (शीषु) स्मेरासु हसितासु सुमानां पुष्पाणामावलीषु श्रेणीसु सतीषु । उत्प्रेक्ष्यते—अस्याः शरदिन्दिराया विविधप्रकारासु भूषासु आभरणेष्विव । ' विनापि भूषामवधिः श्रियामसौ' इति नैषधे । 'भूषा भूषणानि' इति तद्वृत्तिः । त्रिभिर्विशेषकम् । इति शरत्समयः ॥
શ્લેાકા
ખંજન
મસ્તક
વિકસ્વર કમલેા, જાણે શરદઋતુનાં મુખ। ન હેાય ! આમતેમ ભ્રમણ કરતા ચપલ ( ગંગેટી ) પક્ષીએ જાણે શરદલક્ષ્મીનાં નેત્રો ન હેાય ! ( વર્ષાકાળમાં ખંજનપક્ષીઓના ઉપર રહેલી શિખાના પ્રભાવથી ખ`જનપક્ષી અદૃશ્ય હેાય છે. શરદઋતુમાં શિખા પડી જવાથી દષ્ટિગેાચર થાય છે. ) વિકવર કમલાની પરાગેામાં રહીને ગુંજારવ કરતા ભ્રમરોના સમૂહો જાણે શરદલક્ષ્મીના બંદીજને (મ'ગલપાઠકા ) ન હોય ! પરિપકવ ડાંગરના સમૂહથી ઉજવલ કયારાઓવડે શૅાબતી પૃથ્વી જાણે શરદઋતુની સાડીઓ ન હેાય ! વિસ્વર પુષ્પામાં લીન બનેલા ભ્રમરા જાણે શરદલક્ષ્મીનાં વિવિધ પ્રકારનાં આભૂષણો ન હોય ! આવી શરદઋતુના સમયે ગચ્છાધિપતિ હીરવિજયસૂરિ રિમંત્રના ધ્યાનરૂપી ક્ષીરસમુદ્રમાં મત્સ્યની જેમ લીન (મગ્ન) થતાં, સૂર્ય અસ્તાચલની સમીપની ભૂમિતા આશ્રય કરનારા થયા. ૫૧૧૫૧૨।।૧૩।।
विधेर्नियोगेन निजास्तपश्यान, पुत्रानिवोत्सङ्गजुषः स्वरश्मीन् । स्तीकोपा - दिवारुणीभूतमथारुणेन ॥ १४ ॥
1
अथास्ताचलसमीपगमनानन्तरम् अरुणेन भास्करेण अरुणीभूतं रक्तेनाभूयत । उत्प्रेक्ष्यते - तदुदीत कोपादिव तेषु स्वरश्मिषु उदीतः प्रादुर्भूतो यः कोपः क्रोधस्तस्मा - दिव । किं कृत्वा । दृष्ट्वा अवलोक्य । कान् । स्वरश्मीन् आत्मीयकिरणान् । किंभूतान् । उत्सङ्ग ं क्रोडौं जुषन्ते भजन्ते । उत्प्रेक्ष्यते - पुत्रान्नन्दनानिव । पुनः किंभूतान् । विधेर्देवस्य नियोगेन परवशतया निजस्य सूर्यात्मनः अस्त क्षयं पश्यन्ति विलोकयन्तीति । अत एव कि कर्तुमिच्छून् । यियासून आत्मनः पार्श्वदन्यत्र कुत्रचिङ्गन्तुमिच्छून् ॥