________________
४६६
सौभाग्यम्
[ सर्ग ७ श्लो० १० - १३
रणात् या शरलक्ष्मीर्जडाशयान् जडस्वभावान् जडहृदयान्या । मूर्खानित्यर्थः । प्रसन्नाशयान् निर्मलीभूतमध्यान् प्रसन्नतायुक्तस्वमावान् झगित्यर्थावबोधगोचरत्वं प्रसादगुणस्ततचित्तान् त्वरितमेव शास्त्रार्थमवबुध्यन्ते तादृशान् । पण्डितानित्यर्थः । असृजत्कृतवती । च पुनः कवित्वेन पाण्डित्येन काव्यकर्तृत्वेन वा । 'विद्वान् सुधीः कविविचक्षणलब्धवर्णाः' इति हैम्यां पण्डितनामानि । तथा 'वयमपि कवयः कवयः ( कवयः ) कवयश्च कालिदासाद्याः' इति कविशब्देन काव्यकर्तापि । या श्रीः शोभा लक्ष्मीर्वा तया कलितान्युक्तान् करोति स्म । तत्त्वतस्तु डलयोरैक्यात् जलाशयांस्तडाकादिनीर स्थानानि स्वच्छमध्यान् तथा कस्य पानीयस्य वयः पक्षिणो हंसादयस्तैः सहितांश्चक्रे । वर्षा हंसा हि मानससरसि यान्ति । शरदि पुनः कमलकलितेषु निर्मलसलिलेषु सरःसु समायान्ति इति कविसमयः ||
લેાકા
અથવા હીરવિજયસૂરિના ધ્યાન સમયે આવેલી શરદલક્ષ્મીનું શું-શું વર્ણન કરવુ ? જે શરદઋતુએ, બધા જ પ્રકારને કાદવ દૂર કર્યાં છે. તેમજ જડ આયવાળા–અર્થાત્ મૂર્ખ પુરુષોને પ્રસન્નચિત્તવાળા કર્યાં છે. ( વિદ્વાન બનાવ્યા છે, ) તેમ જ વિવલક્ષ્મીવડે જીવાને યુકત કર્યાં છે, અથવા કવિ બનાવ્યા છે. અને સાવરને કમરહિત અથવા સ્વચ્છ બનાવતી એવી શરદઋતુના માહાત્મ્યનું શું શું વર્ણન કરવું ? ૫૧૦ના
स्मितेषु पत्रेषु मुखेष्विवास्या, रङ्गत्सु नेत्रेष्विव खञ्जनेषु । बन्दिष्विव स्मेरसरोजपौष्प-निष्पातिगुञ्जन्मधुकृद्वजेषु ॥ ११ ॥ पटीष्विवोद्दामकलामकौधा-वदात केदारवसुंधरासु । भूषास्विवास्या विविधासु लीन - शीलीमुखम्मेरसुमावलीषु ||१२|| गणाधिराजे प्रणिधानदुग्ध - पाथोनिधौ मीन इवातिलीने ।
तदा कदाचिद्गगनाध्वनीनोऽ - पराचलाभ्यर्णभुवं बभाज ॥१३॥
तदा तस्मिन् शरत्समये कदाचित्कस्मिन्नपि दिनावसानव्यतिकरे गगनाध्वनीनः । 'गगनाद्धवजाध्वगौ' इति हेम्याम् । सूर्यनामसु । तथा 'अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकदेशिक' इति हैम्याम् । अपराचलस्य अस्तादेरभ्यर्णभुवं समीपभूमीप्रदेश बभाज श्रति स्म । कस्मिन् सति । गणाधिराजे हीरविजयसूरीन्द्रे प्रणिधानं ध्यानम् । 'सोऽपश्यत् संततेः स्तम्भकारणम्' इति रघुवंशे । तदेव दुग्धपाथोनिधिः क्षीरसमुद्रः तस्मिन्मीनो मत्स्य इव अतिशयेन लीने मग्नीभूते । अथ समयवर्णनम् । केषु सत्सु । स्मितेषु विकसतेषु पद्मेषु कमलेषु सत्सु । उत्प्रेक्ष्यते - अस्याः शरलक्ष्म्याः मुखेषु क्रीडाकृताने कवदनेष्विव । पुनः केषु सत्सु । रङ्गत्सु लीलया अशनाद्यर्थं वा इतस्ततो भ्राम्यत्सु खञ्जनेषु खञ्जरीटेषु' गंगेटिया' ख्यपक्षिविशेषेषु सत्सु । वर्षाकाले हि खञ्जनानां शिरःसु शिखा समायाति तदनुभावाददृश्यीभावं भजन्ते । ततः शरदि पुनः शिखापाताच्चक्षु