________________
२४
हीरसौभाग्यम् [सर्ग १ श्लो० ४०-४१ च पुनः-कियति काले व्यतीते सति दुर्जनशल्यनामा भूमान् राजा यच्चैत्य यस्य भगवतः प्रासादमधीकरत् शिल्पिभिः कारयामास । उत्प्रेक्ष्यते-देवस व सुपर्वविमानमिव । किं कृत्वा । यतः श्रीशङ्खेश्वरपार्श्वनाथात् रूप दुष्टरोगापगमात्सर्वाङ्गसुभगतामाप्य लब्ध्वा । उत्प्रेक्ष्यते-स्मार स्मरसम्वन्धि रूप संप्राप्य । पुनः किं कृत्वा । अनाप्य अनासाच । कुतः-झंझुपुरे झंझूवाडाख्यग्रामे । योऽर्कः साधिष्ठायकसूर्यप्रतिमा ततः । प्रथम हि दुर्जनशल्यभूमीपतिः सूर्यपुर उपविष्टः । ततस्तदधिष्ठायकेन प्रोक्त यत्'तवाङ्गकुष्ठादिरोगामयो मयापनेतुन शक्यते । ततस्त्वं शङ्खेश्वरपार्श्वनाथपाश्वे प्रयाहि । स एव तव सर्वाङ्गीणान्रोगानपनेष्यति ।' तदनु शङ्खेश्वरपार्श्वनाथमाराध्य सम्यग् रूपवानासीदिति संप्रदायः । अतो झंझू पुरस्थभास्करात्सम्यक् रूपन प्राप्तम् । कस्मादिव । निःस्वादिव । यथा दरिद्रपुरुषादैश्वर्य नाप्यते । अत्र पूर्वाचार्यप्रणीतस्तुतिकाव्यानि यथा-'अपूपुजत्त्वां विनमिनमिश्च वैताढयशैले वृपमेशकाले । सौधर्मकल्पे सुरनायकेन, त्वौं पूजितो भूरितर च कालम् ॥१॥ आराधितस्त्व समय कियन्त, चान्द्रे विमाने किल भानवेऽपि । पद्मावतीदेवतया च नागा-धिपेन देवावसरेऽचिंतस्त्वम् ॥२॥ यदा जरासंधप्रयुक्तविद्या-वलेन जात स्ववल जरार्तम् । तदा मुदा नेमिगिरा मुरारिः, पातालतस्त्वां तपसा निनाय ॥३॥ तव प्रभोः स्नात्रजलेन सिक्त, रोगैविमुक्त कटक वभूव । संस्थापित तीर्थमिदं तदानी, शखेश्वराख्य यदुपुङ्गवेन ॥४॥ तथा कथंचित्तव चैत्यमत्र, श्रीकृष्णराजो रचयाञ्चकार । स द्वारकास्थोऽपि यथा भवन्त, ननाम नित्य किल सप्रभावम् ॥५॥ श्रीविक्रमान्मन्मथवाणमेरु-महेशतुल्ये समये व्यतीते । त्वं श्रेष्ठिना सजननामकेन, निवेशितः सर्वसमृद्धिदोऽभूः ॥६॥ झंझुपुरे सूर्यपुरोऽनवाप्त, त्वत्तोऽधिगम्यागमनगरूएम् । अचीकरद् दुर्जनशल्यभूपो, विमानतुल्यं तव देव चैत्यम् ॥७॥” इति ॥
साथ ત્યારબાદ કેટલેક કાળ ગયા પછી દુર્જનશલ્ય નામના રાજાએ જે પ્રભુની આરાધના વડે પોતાના કરેગને દૂર કરી કામદેવ સમાને સર્વાગ સુંદર૩૫ પ્રાપ્ત કર્યું. તે રાજાએ શ્રીશંખેશ્વર પાર્શ્વનાથનું દેવવિમાન જેવું મંદિર બંધાવ્યું. પહેલાં તે દુર્જનશલ્યરાએ ઝીંઝુપુર (ઝીંઝુવાડા) નામના નગરમાં સૂર્યદેવની પ્રતિમાની આરાધના કરી ત્યારે તેના અધિષ્ઠાયક સૂર્યદેવે કહ્યું કે “તારા કઢરોગના નિવારણ માટે હું અસમર્થ છું, તેથી તું શંખેશ્વર પાર્શ્વનાથ પાસે જા. તે જ પ્રભુદ્વારા તારા રોગોનું નિવારણ થશે. તેથી જેમ દરિદ્રપુર પાસેથી ઐશ્વર્ય પ્રાપ્ત થઈ શકતું નથી તેમ સૂર્યદેવ પાસેથી રૂ૫ની પ્રાપ્તિ નહીં થવાથી દુર્જનશલ્ય રાજાએ શ્રીશંખેશ્વરજીની સમ્યફ પ્રકારે આરાધના દ્વારા રોગોને દૂર કરી, સુંદરતા પ્રાપ્ત કરી, તેથી પોતાના ઉપકારી શ્રી પાર્શ્વનાથભગવાનનું ભવ્ય મંદિર તે રાજાએ બંધાવ્યું तु. ॥४०॥
पद्मावतीप्राणपतिः प्रसूना-शनीभविष्णुश्चरणारविन्दे । तन्तन्यते यन्महिमानमुक्, सरोजसौरभ्यमिवाहिकान्तः ॥४१॥