________________
२५
सर्ग १ श्लो० ४१-४२-४३] हीरसौभाग्यम्
__पद्मावत्या वैरोटयापरनामधेयायाः प्राणपतिर्भर्ता धरणोरगेन्द्रो यन्महिमानौं यस्य श्रीशङ्खेश्वरपार्श्वनाथस्य माहात्म्यमुर्त्या धरित्र्यां तन्तन्यते अद्यापि यावदतिशयेन विस्तारयति । पद्मापतिः किंभूतः । प्रसून पुष्प तदेवाशनमाहारो यस्य स प्रसूनाशनो भृङ्गः । 'भोज्यौं तु पुष्पमधुनी' इति हैमीवचनात् । स भविष्णुर्भवनशीलः । कस्मिन् । अर्थाद्यद्भगवतश्चरणारविन्दे पादपद्मे । क इव । अहिकान्त इव । यथा अहिकान्तो वायुः। 'वातोऽहिकान्तपवमानमरुत्' इति हैम्याम् । सरोजसौरभ्य कमलपरिमल' क्षितौ तन्तनोति ॥
શ્લેકાર્થ પવન જેમ કમલના વનની સુવાસ ફેલાવે છે તેમ પદ્માવતી વિરુદ્યા)ના સ્વામી એવા ધરણેન્દ્ર પણ જે શ્રીશંખેશ્વર પાર્શ્વનાથના મહિમાને પૃથ્વીતલમાં અત્યંત વિસ્તાર છે. (તેવા શંખેશ્વર પાર્શ્વનાથ વિજ્યવંત વર્તે છે.) ૪૧
यो ध्वंसतेऽष्टापि दरान्नराणां, व्यालान्ववायानिव वैनतेयः । शयेशयालूः पुनरष्टसिद्धीः, प्रणेमुषां यः कुरुते कृपालुः ॥४२॥
यो भगवान्नराणामर्थादात्माश्रितमानवानां दरान् मनुष्यादुत्पन्नमिहलोकभयम् , सिंहसर्पाद्युत्पन्नपरलोकभयम् , चौरराजाद्युत्पन्नादानभयम् , अग्निविद्युदाद्यकस्माद्भयम् , दुःकालजातजीविकाभयम् , मरणभयम् , अयशोभयम् , नरकतिर्यग्गत्यादिदुःखज संसारभयमेतान्यष्टौ । अथवा मत्तेभमृगेन्द्रदवाग्निभुजंगसंग्रामसमुद्ररोगचौराभिधानानि महाभयानि विध्वंसते नाशयति । क इव । वैनतेय इव । यथा वैनतेयोऽटसंख्यान व्यालानां सर्पाणामन्ववायान् कुलानि वासुक्यनन्ततक्षककंकोलपद्ममहापद्मशङ्खकुलीशशिनामानि विध्वंसते । पुनर्यः कृपालुर्दयावान् प्रणेमुषां निजपादाम्बुजयोनम्रीभूतानां जनानां लघिमा वशिता ईशित्वं प्राकाम्य महिमा अणिमा यत्र कामावसायित्व प्राप्तिरित्यष्टसंख्याका अष्टनाम्न्यो वा सिद्धयः ताः शये हस्ते शयालूः शयनशीला हस्तस्थिताः कुरुते संपादयति ॥
साथ સર્પનાં વાસુકિ, અનન્ત, તક્ષક, કકૅલ, પવ, મહાપા, શંખ અને કુલીશશિ એ નામના આઠ કલોના જેમ ગરુડ નાશ કરે છે; તેમ શ્રીશંખેશ્વર ભગવાન મનુષ્યના-ઈહલેાકભય, પરાકભય, આદાનભય, અકસ્માત, ભય, આજીવિકાભય, ભરણુભય, અપયશભય અને સંસારભય એ આઠ ભયને નાશ કરે છે અને તે દયાળુ પરમાત્મા ભક્તજનોને લધિમાં વશિતા, ઇશિતા, પ્રાકામ્ય, મહિમા, અણિમા, કામાવસાયિત્વ અને પ્રાપ્તિ એ આઠ સિદ્ધિઓ આપે છે. મારા
ऊर्जस्वलत्वं कलयन्कलौ यो, निधिर्महिम्नां महसामिवांशुः । जागर्ति शवेश्वरपार्श्वनाथः, श्रेयःपुरीप्रस्थितपान्थसार्थः ॥४३॥