SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सर्ग १ श्लो० ३८-३९-४०] हीरसौभाग्यम् वसुंधराया इव वैजयन्तं, निर्माप्य चैत्य सुरगोत्रमित्रम् । निवेशयामास सुवर्णविन्दु-रानन्दसान्द्रोऽत्र जिनेन्द्रबिम्बम् ॥३८॥ सुवर्णबिन्दुर्नारायणोऽत्र चैत्ये जिनेन्द्रविम्ब श्रीपार्श्वनाथप्रतिमां निवेशयामास स्थापितवान् । कि कारयित्वा । निर्माप्य विधापयित्वा । किम् । चैत्यं प्रासादम् । किंभूतम् । सुराणां गोत्रस्य गिरेमरोः । 'शैलोऽद्रिः शिखरी शिलोच्चयगिरी, गोत्रोऽचलः सानुमान् ' इति हैम्याम् । मित्रसुराद्रिवत्तुङ्गमित्यर्थः। कि० सुवर्णबिन्दुः।आनन्दसान्द्रः प्रमोदमेदुरः । उत्प्रेक्ष्यते-वसुंधरायाः पृथिव्या वैजयन्तमिन्द्रप्रासादमिव ।। - બ્લેકાર્થ આનંદથી ભરપૂર એવા શ્રીકૃષ્ણ શંખપુરમાં મેરુપર્વત જેવા અતિ ઉન્નત ચૈત્યનું નિર્માણ કરાવી તે મંદિરમાં શ્રી પાર્શ્વનાથ ભગવાનની પ્રતિમાને સ્થાપના કરી. જાણે કે પૃથ્વી ઉપર ઈન્દ્રને પ્રાસાદ (મહેલ) હેય એવું આ ચૈત્ય શોભી રહ્યું છે. પ૩૮ स्वकारितेशाचलचारुचैत्ये, निवेशितः सज्जनमन्त्रिणा यः । स रोपितः स्वःशिखरीव सौधा-गणेऽस्य जज्ञेऽखिलसिद्धिदायी ॥३९॥ स शखेश्वरपार्श्वनाथोऽस्य सज्जनमन्त्रिणोऽखिलाः समस्ता अष्टसंख्याका अणिमाद्या अन्या वा मन्त्रतन्त्रस्वर्णरूप्यादिका हृदयाभिलषिता सिद्धीददातीत्येवंशीलो दायी दायको जज्ञे जातः । क इव । स्वःशिखरीव । यथा सौधस्य निजमन्दिरस्याङ्गणे रोपित उप्तः सुरद्रुमो निखिलार्थसिद्धिदः स्यात् । स कः । यः प्रभुः स्वेनैवात्मनैव कारितं शिल्पिभिनिर्मापितम्, तथा-ईशाचलः कैलाशस्तद्वच्चारु तुङ्ग सुधाधवलं च यच्चैत्यं प्रासादस्तस्मिन् सज्जननाम्ना मन्त्रिणा निवेशितः स्थापितः । अथवा सज्जनमन्त्रिणा स्वकारितोत्तुगचैत्ये निवेशितस्तस्मिन् सौधाङ्गणे प्ररोपितसुरतरुरिव सकलार्थसिद्धिदातासीत् । अत्र च 'प्ररोपितः' इति पाठः ॥ दा કેટલેક કાળ વીત્યા પછી પોતે નિર્માણ કરાવેલા, કૈલાસ પર્વત જેવી સુંદરતાને ધારણ કરતા અતિ ઉનત ચૈત્યમાં સજન નામના મંત્રીએ અણિમાદિ સમસ્ત સિદ્ધિઓને આપવામાં કલ્પવૃક્ષ સમા શ્રીશંખેશ્વર પાર્શ્વનાથ ભગવાનની મૂર્તિને સ્થાપના કરી. તે જાણે પિતાના ઘર આંગણે સાક્ષાત કલ્પવૃક્ષ વાવ્યું હોય તેવી શોભતી હતી. ૩૯ निःस्वादिवैश्वर्यमनाप्य झंझू-पुरातो दुर्जनशल्यभूमान् ।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy