________________
सर्ग ७ श्लो० १-३ ] हीरसौभाग्यम् पौरलोकान् आनन्दयति स्म प्रमोदमुत्पादयामास । उत्प्रेक्ष्यते-तेषां डीसापुरपौराणामेष चक्षुःप्रत्यक्षलक्ष्यः मूर्तस्तनुमान् पचेलिमः परिपाक प्राप्तः प्राकनः प्राची नजन्मोपाजितः पुण्यपुञ्जः सुकृतसमूह इव ॥
साथ શ્રી હીરવિજયસૂરિએ ડીસા નગરમાં સર્વે નગરવાસીઓને આનંદિત કર્યા, તે જાણે નગરવાસીઓને આ પૂર્વે પાર્જિત પરિપક્વ બનેલ મૂર્તિમાન પુણ ને પુંજ પ્રગટ થયું ન હોય! છે ને !
मिलद्धलाकाम्बरमुद्वहन्ती, लीलागतोद्वेजितराजहंसा । श्यामातिनम्रा च पयोधरोद्य-द्धाराभिरामा पिहिताननेन्दुः ॥ २ ॥ मुरासुधभूलतिकात्मयोनि-मुज्जीवयन्तीव तडिद्विलासा । मुदे तदानीमजनिष्ट यूनां, प्रावृनवोढा वरवणि नीव ॥ ३ ॥
तदा तस्मिन् डीसानगरे हीरविजयसूरेश्चतुर्मासकस्थितिसमये यूनां तरुणजनानां मदनमदमेदुरीभूतानां नवोढा यौवनवती नवपरिणीता वरवर्णिनी सर्वकलाकुशलप्रधानखीव प्रावृट् वर्षा मुदे प्रमोदायाजनिष्ट संजाता । वृद्धानां तु शीतवातकर्दमादिना दुःखदायिन्यत एव यूनामिति पदोपादानम् । किंलक्षणा प्रावृट् वरवर्णिनी च । मिलन्त्यः श्लिष्यन्त्यः भर्ना समागम कुर्वन्त्यः बलाका बलाकाङ्गना यत्र । 'गर्भाधान. क्षणपरिचयान्नूनमाबद्धमाला सेविष्यन्ते नयनसुभग खे भवन्त बलाकाः' इति मेघदूतकाव्ये । प्रायो बर्षाकाले बकास्तु वृक्षादिषूपविश्य तिष्ठन्ति । बकाङ्गनास्तानाहारैः पोषयन्त्यत एवाम्बरे भ्राम्यन्ति । तादृशमम्बरमाकाशम् । पक्षे मिलन्त्यः श्रेणीभवन्त्यः बलाका बलाहकमहिलास्तद्वदुज्ज्वल नवपाणिग्रहणावसरत्वाद्धवलमम्बर वसनमुद्वहन्ती। धारयन्ती । यतः । श्वेत परिणयवासः स्यात् । पुनः किंभूता । लीलया स्वभावेन, न तु मन्त्राकर्षणादिना, आगतेन अनादिजगन्निसर्गेण वर्षितुमागमनेन उद्वेजिता, विजयकरणप्रस्थानेषु विघ्न प्रापिता राजहंसा विजयिराजानो यया । 'विश्रान्तजिष्णुश्मापालयुधि' इति चम्पूकथायाम् । विजयिनो हि राजानः प्रावृट्समये कुत्राप्यवस्थिति कुर्वते, च शरदि च विजयाय प्रतिष्ठन्ते । अथवा लीलया वर्षणविलासेन यदागमन तेनोद्वेजिता जम्बालजालाविलजलावलोकनेनोद्वेग गमिता अत एव मानस प्रति प्रस्थातुमुत्सुकीकृता राजहंसा यया । 'प्रोषितकलहंसवयसि' इति चम्पूकथायाम् । प्रोषिता मानस प्रति प्रस्थापिताः कलहसविहंगमा येन' इति तद्वत्तौ । पक्षे मन्थरगमनविलासेनावहेलिता राजमराला यया स्त्रिया । पुनःकिंभूता । श्यामा सजलजलदपटलकालिमाकलिता । पक्षे षोडशवार्षिकी । पुनः किंभूता । अतिनम्रा अतिशयेन गुर्वादिषु नमनशीला लघुवृद्धानां विनयपरा । यदुक्तम्-'नमणी षमणी बहुगुणी बिहुपखि वंसविशुद्ध । पुण्यविना नवि पामिइ करिधणुहा घरि भज ॥' इति वचनात् । पक्षे अतिशयेन नम्रा उन्नमय्यागता मेदिनीमण्डलालिंगि(नी) वईलिका । पुनः किलक्षणा । पयोधरेभ्यो