________________
सर्ग ६ श्लो. १९३-१५४]
हीरसौभाग्यम्
४५९
सूरिवासवसमागमस्फुर-त्प्रीतिपल्लवितचित्तवृत्तिभिः ।
नागरैरमितपत्कु(रिक्थ)वर्षिभिः, स्पर्धयेव धनदो निधीश्वरः ॥१९३।। अमित मानातीत परिक्थं द्रविण वर्षन्ति याचकानां यथाकाम दयते इत्येवंशीलै गरैर्डीसानगरजनैः सार्धम् । उत्प्रेक्ष्यते -स्पर्धया संह(घ)र्षेणेव निधीश्वरो वैश्रवणो धन ददातीति धनदोऽभूदिव बभूवानिव । किंभूतैर्नागरैः । सूरिवासवस्य हीरविजयसूरीन्द्रस्य समागमेन समवसरणेन कृत्वा स्फुरन्ती प्रकटीभवन्ती या प्रीतिः प्रमोदातिशयस्तया पल्लविता मेदुरीभूता चित्तवृत्तिर्मनेाव्यापारो येषाम् ॥
सोमा આચાર્ય% શ્રીહીરવિજયસૂરિના આગમનથી ઉલ્લવિત થયેલી પ્રીતિથી પલ્લસિત બની ગયેલા ચિત્તવાળા નગરવાસીઓ યાચકોને પ્રમાણાતીત દાન આપીને ૨૫થી જાણે સ્વયં કુબેરભંડારી બની ગયા ન હોય ! ૧૯૩
नृत्यच्चन्द्रकिचक्रमुन्मदनदद्धप्पीहवालाकुल,
श्रीसूनोरिव यौवराज्यसमय व्यालोक्य वर्षांगमम् । क्रीडछान्तरसाईमानससरोजन्माकरे हंसव
च्छीसूरीश्वरहोरहीरविजयस्तस्मिन् सुखं तस्थिवान् ।।१९४॥ श्रिया स्वस्वगणलक्ष्म्या युक्ता ये सूरीणां स्वल्पश्रुताध्ययनेन सामान्याचार्याणां मध्ये ईश्वरा व्यवहारिणः साङ्गप्रक्चनेवधीतिनोऽनूचानास्तेषु हीरो मुकुटमणिर्वज्ररत्न तत्तव्यः श्रीहीरविजयनामा सूरिपुरंदरः तस्मिन् डीसानगरे चिन्तानाचान्तहृदयत्वेन निर्विघ्नत्वेन वा सुखसहितं यथा स्यात्तथा तस्थिवान् चतुर्मासीमासीदति स्म । स्थित इत्यर्थः । किं कृत्वा । वर्षागम मेघाममनसमय व्यालोक्य समीक्ष्य । किंभूतम् । मृत्यन्ति कान्तकेकारवकलितताण्डव कुर्वाणानि चन्द्रकिणां मयूराणां चक्राणि पटलानि यत्र । चन्द्रक पिच्छमिति विद्यते येषां ते चन्द्रकिणः । “भेचकश्चन्द्रकः समौ' इति हैम्याम् । 'सेव्याः संप्रति सान्द्रचन्द्रकिकुलैरुत्ताण्डवैर्मण्डिताः' इति चम्पूकथायाम् । पुनः किंभूताः । उत्कृष्टो मदो येषां ते । मदोद्धता इत्यर्थः। नदन्तः शब्दायमानाः नन्दन्त्यो बप्पीहानां चातकानां बालाः स्त्रियः शिशवो वा । प्रायो विपदि स्त्रीणां शिशूनां च कातर्यस्यात्, अतो बालाशब्दोपादानम् । ताभिस्तैर्वा आकुल व्याप्तम् । उत्प्रेक्ष्यते-श्रीसूनोः कन्दर्पस्य यौवराज्यसमयमिव । युवा चासो राजा च युवराजस्तस्य भावो यौवराज्य तस्य समयः युवराजपदाभिषेचनप्रस्तावमिव । सूरिः कि कुर्वन् । क्रीडन् । केली निर्मिमाणः । कुत्र । शान्तरसो नवमोपशमरस इत्याह्ना नाम यस्य तादृशे मानसनाम्नि सरोजन्मनां पद्मानामाकरे । 'पद्माकरस्तडागः स्यात्' इति हैमीवचनात् । मानससरोवर इत्यर्थः। किंवत् हंसवत् । यथा हंसो वर्षागम विलोक्य मानससरसि क्रीडन् तिष्ठति ॥