________________
aritra
मण्डयत्यमरमन्दिरं गुरौ, दीप्यते स्म मुनिवासवोऽधिकम् । यामिनीप्रियतमे पराम्बुधे-मध्यभागमिव पद्मिनीपतिः || १८८ ||
सर्ग ६ श्लो० १८८ - १९० ]
४५७
गुरौ विजयदानसूरीश्वरे अमरमन्दिर सुरसदन' देवलोक मण्डयत्यलंकुर्वति सति । ' मण्डति भूषत्यलंकरोत्यपि च मण्डयति भूषयत्यपि' इति क्रियाकलापे । मुनिवासवो हीरविजयसूरिपुरुहूतः अधिकमतिशयेन दीप्यते स्म स्फूर्ति विभर्ति स्म । क इव । पद्मिनीपतिरिव । यथा यामिनीप्रियतमे निशानाथे चन्द्रे पराम्बुधेः पश्चिमसमुद्रस्य मध्यभागमन्तरालौं भजति सति पद्मिनीपतिरधिकमतिशायितया दीप्यते एतावता दिवसोदयमवाप्य भास्वानधिकतेजस्वी स्यात् ॥ इति विजयदानसूरीन्द्रे परलोक प्राप्ते श्रीहीर विजयसूरेः पट्टधरत्ववर्णनम् ॥
શ્લાકા
જેમ ચદ્ર પશ્ચિમ સમુદ્રના મધ્યભાગના આશ્રય કરે ત્યારે સૂર્ય દિવસે તેજસ્વી બને છે, તેમ વિજયદાનસૂરિએ સ્વર્ગલાકને અલંકૃત કર્યાં પછી અર્થાત્ સ્વવાસ પામ્યા પછી, હીરવિજયસૂરિ ગુરુમહારાજની પટ્ટલક્ષ્મીને પ્રાપ્ત કરીને વિશેષ પ્રકારની સ્ફૂર્તિને ધારણ કરનારા બન્યા. ૫૧૮૮૫
यद्नेहशृङ्गाङ्गणनद्धमारुत-प्रेङ्खत्पताकापटपल्लवच्छलात् ।
गोष्ठी मनुष्ठातुमिवामरावतीं श्रिया सखीमाह्वयतीव पाणिना ॥ १८९ ॥
यत्पुरं डीसानगरम् । उत्प्रेक्ष्यते - गोष्ठीमनुष्ठातु परस्पर प्रीतिवार्ता विधातु श्रिया समृद्धया शोभया सखीं वयसीममरावतीं पुरंदरपुरीं पाणिना हस्तेन आह्वयत्याकार - यतीव भूचराणां तूर्ध्वलोकगमनं न भवेत्, खेचराणां त्वध ऊर्ध्वगमनशक्तिरस्त्येव, तस्मादमरावत्याकारण युक्तमेव । कस्मात् । गेहश्टङ्गाङ्गणे डीसानगर गृहशिखराजिरे नद्धः अङकुटकमध्यनिवेशितदण्डप्रान्तनिबद्धः, तथा मारुतेन वातेन प्रेङ्खन्नितस्ततश्चञ्चलीभवन्पताकापटपल्लवो ध्वजवसनाञ्चलस्तस्य छल कपट तस्मात् । अत्र यावद्ध्वजवाचित्वादेकवचनमेव विवक्षितम् ।
શ્લાકા
સમૃદ્ધિશાલિની પેાતાની સખી અમરાવતીને પેતાની સાથે પરસ્પર પ્રેમવાર્તા કરવા માટે મદિરાનાં શિખરેાની મધ્યમાં સ્થાપન કરેલા દંડ ઉપર બાંધેલી તેમજ પવનવડે ચંચલ બનેલી એવી ધ્વજાના છેડારૂપ હાથવડે જાણે ખેલાવતી ન હેાય ! તેવા પ્રકારની ‘ડીસા’ નગરી શાભે છે, ૧૮૯ા
यदीयराजद्विभवाभिभूतया, पौलस्त्यपुर्या किमभाजि लज्जया । यदुज्यतेऽद्यापि तया न भङ्गोऽ - भिज्ञानमीशानशिलोच्चयाश्रयः ॥ १९०॥
यदीयो डीसानगरसंबन्धी राजन् जगति शोभां प्राप्नुवन् यो विभवः समृद्धयतिशय