________________
४५४
हीरसौभाग्यम् सर्ग ६ श्लो० १८१-१८३ अधिकमधरयन्तीं साधिमान सुधानां,
श्रवणविषय भावं देशनामानिनाय ॥१८१॥ अथ सूरतिवन्दिरे सूरिपाश्चगमनानन्तर पृथुकपुरोगः कुमार श्रेष्ठः । 'वर्य वरेण्य प्रवर पुरोगम्' इति हैम्याम् । संमदेन हर्षेण व्रतीन्दोः सूरेर्देशनां धर्मोपदेश श्रवणविषयभाव श्रुतिगोचरतामानिनाय प्रापयति स्म । शृणोति स्मेत्यर्थः । देशनां किं कुर्वतीम् । सुधानाममृतरसानां साधिमान चारुताम् । आस्वादमित्यर्थः । अधरयन्ती हीनां कुर्वतीम् । किमधिक बहु यथा स्यात्तथा । मिष्टत्वेन सुधामपि धिक्कुर्वतीमित्यर्थः । क इव । गजसुकुमाल इव यथा कृष्णलघुभ्राता देवक्या अष्टमः पुत्रो गजसुकुमालः अरिंटनेमेः श्रीनेमिनाथस्य स्वामिनो जगन्नाथस्य तीर्थकृतो देशनां शुश्राव ॥
साथ જેમ દેવકીના આઠમા પુત્ર અને કૃષ્ણના લઘુભ્રાતા ગજસુકુમાળે ભગવાન શ્રી નેમિનાથની સુધાસારિણી ધર્મદેશનાનું પાન કર્યું, તેમ સુરત બંદરે આચાર્યની પાસે આવ્યા બાદ જયસિંહકુમારે અતિવર્ષ પૂર્વક આચાર્ય મહારાજશ્રીની સુધાસહોદરી એવી ધર્મદેશનાનું પાન કર્યું. ૧૮૧
असारादेहिना देहात्, सारोऽईद्धर्म एव हि ।
उद्घार्योऽनर्थकार्यर्था-दानशौण्डेन दानवत् ॥१८२॥ देहिना भविकप्राणिना असारादाधिव्याधिजरादिभिः साररहितीकृतादेहादात्मशरीरा. दहतो जिनस्य जिनप्रणीत एन सारो निखिलार्थसाधको धर्म एवोद्धार्य उद्धरणीयः । किंवत् दानवत् । यथा अनर्थ पितृभ्रातृपुत्रमित्रादिद्रोहं कारयतीत्येवंशीलादर्थाद्धनादानशौण्डेन वदान्येन दानमुद्धियते । यदुक्तम् –'दान वित्तादृतं वाचः, कीर्तिधर्मों तथायुषः । परोपकरणं कायादसारात्सारमुद्धरेत् ॥' इति ॥
કલેકાર્થ
માતા, પિતા, ભ્રાતા, પુત્ર, મિત્ર આદિ પરિવારને દ્રોહ કરાવે એવી લક્ષ્મીનું દાનેશ્વરીવડે દાન કરાય એ જેમ શ્રેષ્ઠ છે, તેમ ભવ્યજીવડે આધિવ્યાધિ ઉપાધિવડે ગ્રસ્ત એવા અસાર શરીરથી સકલાર્થસિદ્ધિદાયી સારભૂત એ જિનભાષિત ધર્મ એ જ એક ઉપાય છે. કહ્યું છે કે-ધનથી દાન વાણીથી સત્ય, આયુષ્યથી કીર્તિ અને ધર્મ તેમજ કાયાથી પરોપકાર, એમ અસારમાંથી સારવસ્તુને જ ગ્રહણ કરવી જોઈએ” ૧૮રા
प्रबुबुधे प्रभुदेशनयानया, शिशुसहसदृशा सममम्बया ।
विशदचन्द्रिकयेव कुमुद्वती-लतिकया कुमुदेन तमीमणेः ॥१८३॥ शिशुसहस्त्रदृशा कुमारपुरंदरेण प्रबुबुधे प्रतिबोधः प्राप्यते स्म संसारायरज्यत । कथम् । सम सार्धम् । कया । अम्बया तजनन्या कोडिमदेव्या । कया । प्रभोविजयदा.