________________
सर्ग ६ श्लो० १६७-१७०] हीरसौभाग्यम्
४४९ तर्यपि । वेश्यायामपि' इत्यनेकार्थः । यद्यपि घशाशब्दो हस्तिन्यां प्रवर्तते तथापि बाहु. ल्यान्नार्यामेव प्रयुज्यमानत्वाद्गन्धसिन्धुरराजस्य वशा हस्तिनीत्यभिधानम् । गन्धेभ. पत्नीत्वात्प्राधान्य च ॥
કલેકાર્થ ત્યારપછી હાથણી સમાન મંથર ગતિવાળી અર્થાત ગજગામિની એવી કમાશ્રેષ્ઠીની પત્ની ડિમાદેસી ગર્ભવતી બની. ૧છા
समयेऽथ तया रत्या, ब्रह्मसूरिव नन्दनः ।
सुषुवे सुषुमास्तोमः, प्रोद्भवन्मूर्तिमानिव ॥ १६८ ।। अथ गर्भभवनानन्तर समये सार्धसप्तवासराधिकनवमासपरिपूर्तिप्रस्तावे तया कोडिमदेव्या नन्दनः पुत्रः सुषुवे प्रसूतः । कयेव । रत्येव । यथा कन्दर्पपत्न्या ब्रह्मसूरनिरुद्धनामा तनयः प्रसूतः । 'कन्दर्पसुतोऽनिरुद्ध ऋष्याक ऊषेशो ब्रह्मसूश्च सः' इति हैम्याम् । उत्प्रेक्ष्यते-मूर्तिमान् शरीरसंयुतः प्रोद्भवन् प्रकटीभवन् सुपुमास्तोमः सातिशायिशोभासमुदय इव ॥
બ્લેકાર્થ ગર્ભધારણ કર્યા બાદ, નવ માસ અને સાડા સાત દિવસ પૂર્ણ થતાં જેમ કામદેવની પત્ની રતિએ અનિરુધ નામના પુત્રને જન્મ આપ્યો હતો, તેમ કડિમાદેવીએ પુત્રરત્નને જન્મ આપે. તે જાણે મૂર્તિમાન સુખનો સમૂહ પ્રગટ થયો ન હોય ! ૧૬૮
तनूजन्माननज्योत्स्ना-नाथे लवणिमामृतम् । . : .
चकोरेणेव पिवता, ननृते पितृचक्षुपा ।। १६९ ॥ . . पितृचक्षुपा कमामहेभ्यलोचनेन ननृते नर्तितम् । किं कुर्वता । पितृचक्षुषा तनूजमनः स्वनन्दनस्य आननमेव वदनमेव ज्योत्स्नानाथश्चन्द्रमास्तस्मिन् । लवणिमा लावण्य सन्दर्यमेवामृत सुधां पिबता । सादरमवलोकयतेत्यर्थः। केनेव। चकोरेण यथा ज्योत्स्नाप्रियेण कुमुदवान्धवबिम्बे ज्योत्स्नामृत पिवता सता नृत्यते ।।
કલેકાર્થ પોતાના પુત્રના મુખરૂપી ચંદ્રમાં રહેલી સૌન્દર્યસુધાનું રહપૂર્વક પાન કરતા કમાટીનાં નેત્રો ચકોર પક્ષીની જેમ નૃત્ય કરવા લાગ્યાં ! ૧૬૯ાા
क्षीरकण्ठः कृतोत्कण्ठः, संजाते जातकर्मणि ।
उत्तेजित इवादर्शः, शिश्रिये परमां श्रियम् ।। १७० ॥ क्षीरकण्ठः शिशुः कमादारकः जातकर्मणि जातस्य संप्राप्तजन्मनः सूनोः स्थितिप.