________________
४४८
हीरसौभाग्यम्
कंसारेवि रुक्मिण्या, स स्वप्नः स्वपतेः पुरः । तया मुदितयाभाषि, भाषितेशोपमेयया ।। १६५ ।।
[ सर्ग ६ श्लो० १६५ - १६७
कमाख्यव्यवहारिणः
तया कोडिमदेव्या स सिंहदर्शनलक्षणः स्वप्नः स्वपतेः निजभर्तुः पुरोऽग्रे अभाषि कथितः । कयेव । रुक्मिण्येव । यथा रुक्मिनृभगिन्या स्वपतेः कंसारेः कृष्णस्याग्रे नक्तदृष्टः स्वप्नोऽभाषि प्रोक्तः । तया रुक्मिण्या च किलक्षगया। मुदितया हृष्टचित्तया । पुनः किंभूतया । भाषितेशोपमेयया भाषितेशया स्ववचनचातुर्या कृत्वा सरस्वत्या सार्धमुपमीयते उपमातुं योग्ययेत्यर्थः ॥
શ્લાકાર્થ
જેમ રૂક્ષ્મણીએ પેાતાના સ્વામી કૃષ્ણ આગળ સ્વપ્નદન કહ્યું હતુ, તેમ વાકૂચાતુરીવડે સરસ્વતીદેવી સાથે સમાનતા ધારણ કરતી અત્યંત હર્ષિત બનેલી એવી કેડમાદેવીએ પેાતાના પતિની આગળ સિંહસ્વપ્ન સૂચિત કર્યુ. ૫૧૬પા
स विचार्य विचारज्ञोs - ङ्गनामिदमजीगदत् ।
सूनुः सिंह इवाधृष्यो, भविता तव भामिनि ! ॥ १६६॥
स कमानाम व्यवहारी अङ्गनां निजकामिनीं कोडिमदेवीं इदमत्रैवानुष्टुभ वक्ष्यमाणमजीदत्कथयति स्म । किं कृत्वा । विचार्य स्वस्वाभाविकमतिपूर्वकबुद्धिविज्ञानेन विमृश्य । सिंहदर्शनलक्षणापूर्वस्वमविचार विधायेत्यर्थः । स व्यवहारी किं विचारज्ञः । आयतौ स्वपर हितावहोदर्कविमर्श ने कुशलः । इदं किम् । हे भामिनि वर्णिनि सिंह इव पञ्चाननवत् परैरधृष्योऽनाकलनीयः । 'अधृष्यश्चाभिगम्यश्च' इति रघुवंशे । तव भवत्याः सूनुर्नन्दनो भविता भविष्यति ॥
લેાકા
વિચારશીલ કમા વ્યવહારીએ વિચાર કરીને પોતાની પત્ની કે ડિમાદેવીને આ પ્રમાણે કહ્યું‘હૅ ભામિનિ, તને સિંહ જેવા શત્રુએથી અજેય એવા પરાક્રમી પુત્રની પ્રાપ્તિ થશે'. ૫૧૬૬॥
गन्धसिन्धुरराजस्य, वशेवालसगामिनी ।
अन्तर्वत्नी ततः पत्नी, महेभ्यस्य बभूवुषी || १६७ ॥
ततः सिंहस्वप्रदर्श' नपुत्रप्राप्तिरूपतदर्थ श्रवणानन्तर महेभ्यस्य कमानामव्यवहारिणः पत्नी जाया कोडिमदेवी अन्तर्वत्नी गुर्विणी गर्भवती बभूवुषो संजायते स्म । किंभूता । अलस मन्थरमचपलं गच्छतीत्येव शीला गामिनी । केव । वशेव । यथा गन्धेनेात्कटमदवारिसौरभेणोपलक्षितः । सिन्धुरराजो गजेन्द्रस्तस्य वशा प्रिया हस्तिनी मन्थर व्रजति तत्रापि गर्भमन्तर्वहन्ती सा । 'वशा नाय' वन्ध्यगव्यां हस्तिन्यां दुहि