________________
सर्ग ६ श्लो० १६२-१६४] हीरसौभाग्यम्
.......४४७ हैम्याम् । मस्तकानां भिदा विदारण द्विधाकरण तदवसरे विलग्नानां । नखाग्राणामति तीक्ष्णत्वेन भिदासमये लगित्वा स्थिता मुक्ता मौक्तिकानि बिभ्रद्दधत् । उत्प्रेक्ष्यते-अभ्यर्थयमानानां याचनां कुर्वाणानामर्थिनां याचकानां दौस्थ्य दारिद्रयमुच्छेत्तुं मूलानिहन्तुं कि धनाढयीकर्तुमिव ॥
કા હાથીઓના કુંભસ્થલોનું વિદારણ કરવાથી તીક્ષ્ણ નખમાં ભરાઈ ગયેલા મોતીઓને ધારણ કરતો તે સિંહ શોભે છે ! તે જાણે યાચના કરતા યાચકોની દરિદ્રતાને મૂળથી જ ઉચ્છેદ કરવા માટે ન હોય ! ૧૬રા.
ज़म्भणादाननं काश-प्रतीकाशो विकाशयन् । मत्तस्तम्बेरमीकान्त-कवलीकृतये किमु ? ॥ १६३ ॥
पुनः किं कुर्वन् । जुम्भणात् ज़म्भाकरणात् आनन निजमुख विकाशयन्विकस्वर' कुर्वन् । प्रसारयन्नित्यर्थः । किंभूतः । काशाः प्रतीता ईषिकास्तेषां प्रतीकाशः श्वैत्येन तत्संनिभः । 'विकसत्कासचामरः' इति रघुवंशे । उत्प्रेक्ष्यते-मत्ता मदोत्कटा ये स्तम्बे. रमीकान्ताः करिणः तेषां कवलीकृतये गण्डोलीकरणार्थ किमु । भक्षणार्थमिवेत्यर्थः ॥ आदितश्चतुर्भिः कुलकम् ॥ इति सिंहस्वप्नः ॥
શ્લેકાર્થ વેત ચામરસમાન ઉજ્જવલ અને બગાસું ખાવાવડે મોટું પહેલું કરતા સિંહે જાણે મદન્મત્ત હાથીઓનું ભક્ષણ કરવા માટે મુખને પ્રસાર્યું ન હોય તે સિંહ શોભતો હતો. ૧૬
जहे महेलया निद्रा, विनिद्रन्नेत्रपत्रया । संगतिदौ नीयेव, सज्जनानां समज्यया ।। १६४॥
विनिद्ती विकाश प्राप्नुवती नेत्रपत्रे नयनकमलदले यस्यास्तया कमाकान्तया को. डिमदेव्या निद्रा प्रमीला सुप्त्यवस्था जहे त्यक्ता । 'महिला स्थान्महेलया' इति शब्दप्रमेदे। तथा । 'यश्च परमहेलारतोऽप्यपारदारिकः' इति चम्पूकथायाम् । कयेव । समज्ययेव । यथा सजनानां साधूनां समज्यया सभया । 'ब्राह्मीव दौर्जनी संसद्वन्दनीया समेखला' इति चम्पूकथायाम् । श्रेण्यर्थवाची सभाशब्दः । दुर्जनानामिय दौर्जनीया दुर्जनसंबन्धिनी सभा श्रेणी । 'उडुपरिषदः किं नार्हन्ती निशः किमनौचिती' इति नैषधे परिषच्छन्दः पङ्क्तयर्थवाची । संगतिभिलनम् गोष्ठी वा हीयते ॥
કલોકાર્થ વિકસિત નયનકમલવાળી તે કોડિનાદેવીએ, જેમ સજજનોના સમૂહે દુર્જનની સંગતિને ત્યાગ अरे, तम निताना त्या . ॥१४॥