________________
सर्ग ६ श्लो० १५७ - १५९]
हीरसौभाग्यम्
४४५
आर्णवे समुद्रसंबन्धिन्यगाधे जले पानीये ममज्ज मग्नवानिव । किंभूतः । विलक्ष्यः पत्न्याः परलोकगमनावलोकनाद्विमनायमानः । किं कृत्वा । प्रेक्ष्य प्रविभाव्य । काम् । रमां लक्ष्मीम् । किलक्षणाम् | अवतीर्णां गृहीतावताराम् । काम् । कोडिमदेवीम् । कोडाईरूपामित्यर्थः । 'ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजनः' । ध्रुवमुत्प्रेक्ष्यते - 'शतं शतशः संख्याः अप्सरसः सुराङ्गनाः अवतीर्यं यां नगरीमध्यासताश्रयन्ति स्म । पर कः । तत्सखीजनः तस्या दमयन्त्या वयसीरूपों लोकसमुदाय' इति नैषधतद्वृत्ती । किं कृत्वा पुराण जीर्ण वृद्ध पुरुष भर्तारं स्वमात्मानं त्यक्त्वा निरस्य । वृद्धपुरुषनिर्वेदान्निज विमुच्येत्यर्थः ॥
લેાકા
વૃદ્ધ થયેલા પેાતાના સ્વામી વિષ્ણુને ત્યાગ કરીને કાડા દેવીના અવતાર ગ્રહણ કરેલી એવી પેાતાની પત્ની લક્ષ્મીને જોઇને તેના દુઃખથી વિમના બનેલા વિષ્ણુએ તેથી જ જાણે સમુદ્રના અગાધ જલમાં ઝંપાપાત કર્યાં ન હોય ! ૫૧૫૭ાા
स्पर्धयेव दिवा दम्भा - दस्याः स्त्रैणशिरोमणेः ।
धृतेतरा पुरा रम्भा, चित्तभूभूमिभृत्सभा ॥ १५८ ॥
पुरा नारदनामनगर्यास्याः कोडिमदेव्या दम्भा व्याजात् । उत्प्रेक्ष्यते - इतरा अन्या रम्भा अप्सरोविशेषा धृता कलितेव । कया । दिवा देवलोकेन समं सार्धं स्पर्धया संघर्षेण असूयया वा । अस्याः किंलक्षणायाः । स्त्रीणां समूहः स्त्रैणं तस्य शिरोमणेश्चूडामणिसंनिभायाः । किंभूता रम्भा । चित्तभूः कामः स एव भूमिभृत्पार्थिवस्तस्य सभा उपवेष्टुमास्थानशाला || इति कोडिमदेवी ॥
શ્લાકા
સ્ત્રીસમુદાયમાં શિરેામણિસમાન કેાડિમાદેવીના રૂપે, દેવલાક સાથેના સ ંધર્ષથી આ નગરીએ કામદેવરૂપી રાજાની સભા સમાન બીજીરભા નામની અપ્સરા ધારણ કરી ન હોય ! ।।૧૫૮ા
अमन्दानन्दसंदौह - मेदुरौ तौ वधूवरौ ।
गमयांचक्रतुः कालं, केलती श्रीसुताविव ॥ १५९ ॥
तौ पूर्व व्यावणितस्वरूपौ वधूवरौ कोडिमदेवीकमाह्वव्यवहारिणौ कालं सुखगृहवासस - बन्धिनं गमयांचक्रतुरतिचक्रमतुः । काविव । केलती श्रीसुताविव । यथा केलती रतिः । 'केलतीमदनयोरुपाश्रये' इति नैषधे । 'केलती रतिः' इति तद्वृत्तौ । श्रीसुतः कामः । विविधविलासैरनेहसं गमयतः स्म । किंभूतौ । अमन्दा अकुण्ठाः प्रत्यह ं वर्धमाना ये आनन्दास्तेषां संदोहो नानात्वं तेन मेदुरौ पुष्टौ ॥
લેાકા
વિવિધ પ્રકારના આનંદપ્રમાદવડે પુષ્ટ તે ૬ પતીના ( કમાશ્રેષ્ઠી અને કાડિમાદેવીના ) કામદેવ અને રતિની જેમ સુખપૂર્વક ગૃહવાસ વ્યકતીત થતા હતા. ।।૧૫૭ાા