________________
D
Don
..
.
.
.......
.
...
सर्ग ६ श्लो० १५२-१५४]
हीरसौभाग्यम्
४४३
किमपास्य जिनांहिसेवया, शशिना येन कलङ्ककश्मलम् । स्थितमेत्य दिवः क्षितौ पुन-नभसो नीलिमसङ्गशङ्कया ॥ १५२ ॥
येन यद्रूपेण कमामूर्तिना शशिना चन्द्रेण । उत्प्रेक्ष्यते-दिव आकाशादेत्य आगत्य क्षितौ पृथिव्याम् । अर्थात् नडुलाईनगर्याम् । स्थित वासो विहितः । किं कृत्वा । जिनो वीतरागः स्वविमानप्रासादगतशाश्वताहत्प्रतिमा तस्यांहः पदस्य सेवया विविधपूजास्तवाद्युपासनया । अथ च जिनो विष्णुस्तस्यांहेरुपास्त्या । तत्त्वतस्तु आकाश विष्णुपदम्' इत्यभिधानम् । कलङ्करूपं कश्मल मलमपास्य निरस्य । तर्हि तत्रैव कथं न स्थितम् , स्थानाभावे हेतुमाह-कया । पुनर्व्याघुटय नभसः आकाशस्य नीलिमा श्यामलत्वं तस्य सङ्गो मिलन भवन सस्य शङ्कया अनिष्टोत्प्रेक्षणेन । 'धृतगम्भीरखनीखनीलिमा' इति नैषधे गगनस्य श्यामत्वम् । श्यामनीलत्वयोरभेदः ॥
પ્લેકાર્થ પોતાના વિમાનમાં રહેલા શાશ્વત જિનેશ્વર ભગવંતની પ્રતિમાઓની વંદનપૂજન આદિ ભક્તિપૂર્વકની ઉપાસના કરવાથી અથવા જિનચરણની (આકાશની) ઉપાસનાથી કલંકરૂપ પાપકર્મ દૂર કરીને ચન્દ્રકમા શ્રેષ્ઠીના રૂપે આકાશમાંથી આવીને આ નફુલાઈ નગરીમાં રહ્યો ન હોય ! કેમકે આકાશની સ્યામતાના સંગથી કદાચ પોતાનામાં મલિનતા આવી જાય એ શંકાથી ચંદ્ર આકાશને છોડીને અહીં આવ્યો ન હેય. (એમ જણાય છે.) ૧૫રા
करवीरगृहत्वमुग्रतां, प्रविहायात्मविरूपनेत्रताम् ।
पुरि यन्निभतोऽवतीर्णवा-निव पीयूषमयूखशेखरः ॥१५३॥
पुरि नारदपुर्या यस्य कमासाहस्य निभतः कपटात् । उत्प्रेक्ष्यते-पीयूषमयूखशेखरश्चन्द्रमौलिरीश्वरोऽवतीर्णवानिव अवतारं गृहीतवानिव । किं कृत्वा । करवीरगृहत्व श्मशानवेश्मताम् । श्मशान करवीर स्यात्' इति हैम्याम् । पुनरुग्रताम् । चण्डतां तथात्मनो निजस्य विरूप विरुद्ध विकृताकार वह्निमयत्वान्नेत्र यस्य तत्ताम् । 'अहिर्बुध्नो विरूपाक्षविषान्तको च' इति हैम्याम् । तृतीयानललोचनतामित्यर्थः । प्रविहाय त्यक्त्वा ॥ इति कमावर्णनम् ॥
સ્મશાનરૂપ ગૃહમાં વાસ, ઉગ્રતા અને અગ્નિરૂપ ત્રીજા નેત્રવડે પોતાનામાં રહેલી વિરૂપતાને ત્યાગ કરીને ઈશ્વરે નાફુલાઈ નગરીમાં આ કમાં શ્રેષ્ઠીરૂપે અવતાર ગ્રહણ કર્યો ન હોય ! ૧૫ :
कोडाईत्यस्य कान्तासी-ज्जगतीयुवतीमणिः ।
यथा सुमनसां सार्व-भौमस्य जयवाहिनी ॥ १५४ ॥ . अस्य कमाव्यवहारिणः कोडाई इति नाम्ना कान्ता पत्नी आसीत् । किंभूता । जग