SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४४२ हीरसौभाग्यम् सर्ग ६ श्लो० १५०-१५१ बहुना महिमाभिनन्द्यते, किममुष्योदयसिंहभूपतेः । न चिरादजरामरीभवे-धुधि योऽभ्येत्य हि संमुखीभवेत् ॥१५०॥ अमुष्योदयसिंहभूपतेर्महिमा माहात्म्य बहुनाधिक्येन किं अभि सामस्त्येन नन्द्यते समृद्धि प्राप्यते । अभिनन्द्यते प्रशस्यते वा । यस्मात् कारणाधुधि संग्रामे यः कोऽपि वीरः सुभटः अमुष्य भूवलयैकवीरस्य राज्ञः अभ्येत्य शौर्यादागत्य संमुखीभवेत् संमुखीभूयात् तेन सह संग्रामः कुर्यात् स विक्रान्तो न चिरादल्पकालादेव अजरामरीभवेदजरा: मरत्वं लभते । देवभूयं भजेदित्यर्थः । यतः–'जिते च लभ्यते लक्ष्मीzते चापि सुरा. गना । क्षणविध्वंसिनि काये का चिन्ता मरणे रणे ॥' इति वृत्तरत्नाकरवृत्तिवचनात् ॥ इत्युदयसिंहराणकः॥ | શ્લોકાઈ વધારે શું કહેવું! ઉદયસિંહ રાજાને મહિમા ચારે તરફથી વૃદ્ધિને પામ્યો. અર્થાત પ્રશંસાપાત્ર બન્યો. કારણકે યુદ્ધમાં કોઈપણ વીરસુભટ, મહાશુરવીર એવા આ રાજાની સન્મુખ આવે અર્થાત યુદ્ધમાં ઉતરે તો અલ્પકાળમાં જ સ્વર્ગલેને પામે! કહ્યું છે કે યુદ્ધમાં ક્ષણક્ષયી એવી આ કાયા શરીરની શું ચિંતા કરવી ? કેમકે જીવે તે લક્ષ્મી અને મરે તો સ્વર્ગલક્ષ્મીને પામે. mn૫૦. अपि तत्र कमाख्यनैगमोऽ-जनि तदभूपुरुहतसंमतः । व्यवहारिषु यः पुरोगतां, समवर्गेषु दधार धर्मवत् ॥१५१॥ अपि पुनस्तत्र नढुलाईनगर्या कमा इत्याख्या नाम यस्य तादृशो नैगमो वणिग् अजनि जातः । किंभूतः । तस्य पूर्वव्यावर्णितस्य भूपुरुहूतस्योदयसिंहभूमीन्द्रस्य संमतो मान्यः । 'इदमः प्रत्यक्षगते समीपतरवति चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् ॥' ग्रन्थकरणावसरे तस्य राक्षः परोक्षत्वात् एतत्कथनम् । अथवा इद स्वाभाविकवचनम् , कवीनां वर्णनौत्सुक्यात् सर्वमपि प्रत्यक्षमेव स्यान्नैषधे प्रयोगनिदर्शनात् । इह नगर्या यः कमाख्यः साधुर्व्यवहारिषु लक्ष्मीवत्सु पुरोगतां प्रकृष्टताम् । 'वर्य वरेण्यं प्रकर पुरोगम्' इति हैम्याम् । मुख्यतामित्यर्थः । दधार बिभर्ति स्म । किंवत् । धर्मवत् । यथा समेषु चतुर्यु वर्णेषु अर्थादिलक्षणेषु धर्मः प्रधानतां धत्ते । अर्थकाममोक्षाणां धर्माधीनत्वेन धर्म एव मुख्यः ॥ શ્લોકાર્થ નાફુલાઈ નગરીમાં તે ઉદયસિંહરાજાનો માનીતો કમા નામને એકી હતો. (અહીં તે २' मा प्रारना प्रयोगथी, अथिनिर्माण समये रागनी ५२क्षता सुस्थित थाय छे. युछे । इदम् शम्तो प्रयोग प्रत्यक्ष तुमी, एतद् शनी प्रयोग सभापती पदार्थ भi, अदस् शहने प्रयोग દૂર અર્થમાં, તેમજ તત્ શબ્દનો પ્રયોગ પરેક્ષ—વિદ્યમાન વસ્તુમાં થાય છે') વળી ધર્મ, અર્થ, કામ અને મોક્ષ–આ ચાર પુરુષાર્થમાં જેમ ધર્મની પ્રધાનતા છે, તેમ સર્વ શ્રીમંતોમાં આ “કમાં' શ્રેણીની પ્રધાનતા હતી. ૧૫૧
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy