________________
सर्ग ६ श्लो० १४७-१४९] हीरसौभाग्यम् ..............४४१ ____ तत्र नारदपुर्या उदयसिंहनामा भूधनो भूमीपतिरजनि संजातः । क इव । माधव इव । यथा मुरनाम्नो दैत्यस्य वैरी नारायणस्तस्य पूनगरी तस्यां द्वारिकायां पुर्या श्रीपति म भूपतिः संजायते स्म । तथा धरणी मेदपाटमण्डलमेदिनी यं उदयसिंहराणकं रमणं भर्तारं प्रणीय कृत्वा शुशुभे शोभते स्म । केव । अरविन्दिनीव । यथा कमलिनी सूर सूर्य स्वपति प्रणीय शोभितवती ॥
બ્લેકાર્થ દ્વારિકામાં જેમ રાજા કૃષ્ણ હતું, તેમ નારદપુરીમાં રાજા ઉદયસિંહ હતા. કમલિની જેમ સૂર્યરૂપ પતિને પામીને શોભે, તેમ મેવાડદેશની પૃથ્વી રાજ ઉદયસિંહ રૂપ પતિને મેળવીને શોભતી ती. ।। १४७॥
युवतीव युवानमङ्गजान् , कलधौतप्रमुखान् खनीव्रजान् ।
पृथिवी पृथिवीपुरंदरं, यमवाप्य प्रमदादजीजनत् ॥ १४८ ॥ पृथिवी मेदपाटदेशावनी प्रमदादानन्दाद्य पृथिवीपुरंदर उदयसिंहराणकमवाप्य भर्तृत्वेन अधिगत्य कलधौते कनकरूप्ये प्रमुखे आदी येषां तादृशान् सर्वधातुप्रधानान् खनीव्रजान् खानिनिकरानजीजनत् प्रकटीकृतवती । केव । युवतीव । यथा तरुणी स्त्री तरुण युवान तरुण यौवनमदोन्मत्त कान्त प्राप्य अङ्गजान् नन्दनान् जनयति ॥
શ્લોકાઈ જેમ યુવાન સ્ત્રી યુવાન પતિને પામીને પુત્રોને જન્મ આપે, તેમ મેવાડદેશની ભૂમિ રાજા ઉદયસિંહ ૩૫ પતિને પામીને હર્ષથી સુવર્ણ અને ચાંદી આદિની ખાણોના સમૂહને પ્રગટ કરનારી બની ૧૪૮
विपुलां विपुलाहवाहता-हितशूरस्रवदनराशिना ।
हृदयेशवद्र्युनाव यो, नवकौसुम्भिकवाससा वशाम् ॥ १४९ ।।
य उदयसिंहमहीमहेन्द्रो विपुलाहवेषु महासंग्रामेषु आहताः सामस्त्येन सपरिवावारेण व्यापादिता येऽहिताः स्वशत्रुभूताः शूराः स्वभटास्तेषां स्रवताङ्गोपागेभ्यो निःसरता अस्रराशिना रुधिरप्रकरेण विपुलां वसुधामूणुनावाच्छादयामास । किंवत् । हृदयेशवत् प्राणवल्लभ इव । यथा भर्ता स्वकान्तां नवेन सद्यस्केन कौसुम्भिकेन कुसुम्भेन रक्त वस्त्र कौसुम्भिक तेन कुसुम्भरञ्जितेन वाससा ओर्णोति आच्छादति परिधापयति । 'ऊर्युक् छ आच्छादने' हादिको धातुः ॥
લોકાઈ જેમ પતિ પોતાની પત્નીને, તૈયાર કરેલા કસુંબાના રસવડે રંગાયેલા રક્ત વસ્ત્રથી આચ્છાદિત કરે, તેમ ઉદયસિંહરાજાએ મહાયુદ્ધમાં હણાયેલા પરિવાર સહિત શત્રઓના શરીરમાંથી પ્રસરત-ધિરથી પથ્વીને આચ્છાદિત કરી. ૧૪૯ી.