________________
४४०
हीरसौभाग्यम्
[ सर्ग ६ श्लो० १४४ - १४७
મદિરાની લક્ષ્મીની અભિલાષાથી જ જાણે સૂર્યાં અને ચ' નિર'તર આકાશને સેવતા ન હોય ૫૧૪૪ા
प्रविभाव्य भवेन भस्मितं, स्मरमेतन्निखिलानुजीविनः । किमु यत्र समेत्य चक्रिरे, वसतिं पौरपरम्परोपधेः ॥ १४५ ॥
पतस्य स्मरस्य निखिलाः समस्ता अप्यनुजीविनः सेवकाः यत्र नारदपुर्या समेत्यागत्य । उत्प्रेक्ष्यते - पुरे भवाः पौराः नागरिकजनाः तेषां परम्पराः श्रेणयः तासामुपधेः कपटात् वसतिं निवासं चक्रिरे कृतवन्तः । किमु किं कृत्वा । भवेन शंभुना स्वधैर्यलोपोभूत कोपानलेन भस्मित ज्वालितावशेषीकृत भस्म करोतीति भस्मयति भस्म्यते स्मेति भस्मितस्तम् । 'तत्करोति तदाचष्टे' इति ञिः व्यन्तत्वा (न्ता) त्तक् । स्मरं स्वस्वा मिनं मनोभवं प्रविभाव्य दृग्गोचरीकृत्य ॥
લેાકાથ
શંકરવડે ભસ્મીભૂત કરાયેલા પેાતાના સ્વામી કામદેવને જોઈ ને કામદેવના સર્વે સેવકે એ નારિકાના સમૂહને બહાને જાણે નારદપુરીમાં આવીને નિવાસ કર્યાં ન હાય ! ૧૧૪૫૧
कुतुकाद्बहुरूपिणं स्मरं हृदि निश्चित्य रतिर्युवभ्रमात् । स्वयमप्यकरोदिदमिता, निजमूर्तीरिव यद्वधूपधेः ॥ १४६ ॥
रतिः शृङ्गारयोनिसीमन्तिनी स्वयमात्मनापि । उत्प्रेक्ष्यते - यद्वधूपधेर्नारदनामनग गरी सुन्दरीदम्भात् । इदंमिताः स्मररूपप्रमाणा यावन्ति स्मररूपाणि तावन्निजमूर्तीरात्मीयकायान् किमु अकरोत् कृतवतीव । किं कृत्वा । युवभ्रमान्नारदनगरी तरुणजनभ्रान्त्या कुतुकात् कौतूहलात् स्वकान्तं स्मर बहुरूपिणं अनेकानि रूपाणि सन्त्यस्येत्येव - विधं हृदि मनसि निश्चित्य निधाय निश्चयेनावधार्थ यावन्ति रूपाणि स्वभत्र स्मरेण कौतुकात्क्रीडार्थं कृतानि, रत्यापि तेन समं रमणार्थं तावन्त्यात्मीयानि रूपाणि निर्मितानीत्यर्थः । एतावता स्मररूपा युवानः, रतिरूपाश्च युवत्यः सन्तीत्यर्थः ॥ इति नारदपुरीवर्णनम् ॥
શ્લેાકા
નારદપુરીના યુવાનપુરુષામાં ભ્રાન્તિથી બહુરૂપી એવા કામદેવને હૃદયમાં નિશ્ચય કરીતે, પેાતાના સ્વામી કામદેવની સાથે ક્રીડા કરવા માટે કામપત્ની રતિએ પણ સ્વયં આ નગરીની લલનાઓના બહાને કામદેવ જેટલાં રૂપે ધારણ કર્યાં ન હોય ! અર્થાત્ આ નગરીમાં કામદેવ સમાન રૂપવાન્ યુવાનપુરુષો અને તિસમાન રૂપવતી યુવતીએ હતી. ૫૧૪૬।।
मुरवैरिपुरीव माधवोऽजनि तत्रोदय सिंहभूधनः ।
धरणीरमणं प्रणीय य, शुशुभे सूरमिवारविन्दिनी ॥ १४७॥