________________
४३९
मर्ग ६ श्लो० १४२-१४४] हीरसौभाग्यम् ___अरविन्दनन्दनो ब्रह्मा । 'पद्मनन्दनसुतारिरंसुना' इति नैषधे । यथा पद्मनन्दनस्तथैवारविन्दनन्दन इति । एतां 'नडुलाई' नगरी कृतवान् निर्मितवान् । किंभूताम् । विबुधैर्विशि. ष्टपण्डितैर्देवैश्च उपासितां सेविताम् । उत्प्रेक्ष्यते-तन्निभभावस्तस्या अमरावत्या निभा. स्तुल्या ये भावा नगरीरूपाः पदार्थास्तैर्दुविधे दरिद्रे इन्द्रपुरीप्रतिमापरनगरीरहिते तादृशे भुवने विश्वे अमरावतीमिन्द्रनगरीमुपमातुमुपमायुक्तां कर्तुमिव । अमरावतीस. निभामित्यर्थः॥
કાર્થ જગતમાં ઈન્દ્રપુરી સમાન બીજો કોઈ પણ નગરીરૂપ પદાર્થ નહીં હોવાથી અમરાવતીની ઉપમા આપવા માટે જ જાણે બ્રહ્માએ આ નારદપુરી (નાડુલાઈ) નગરીનું નિર્માણ કર્યું ન હોય ! ૧૪રા
युवतीयुवराजिराजिते, नगरे सालनिभान्मनोभवः ।
स्थितवान्नवसरिसाध्वसा-दिव दुर्ग प्रविधाय सानुगः ॥१४३॥ मनोभवो मदनो नगरे 'नडुलाई पुर्याम् । उत्प्रेक्ष्यते-नवसूरेः हीरविजयाचार्यस्य साध्वसाद्यात् स्थितवानिव । किं कृत्वा । दुर्ग कोट्ट प्रविधाय निष्पाद्य । कस्मात् । साल. निभात् नगरीप्राकारच्छलात् । किंभूते नगरे । युवतीयुवराजिराजिते तरुणीतरुणश्रेणीभूषिते । स्मरः किंभूतः । सहानुगैः स्वसेवकैनिजपरिवारैर्वर्तते यः।
કલેકાર્થ યુવાન સ્ત્રીપુરુષોના સમૂહવડે સુશોભિત એવી આ નાડુલાઈ નગરીમાં, નૂતન આચાર્યશ્રી હીરવિજ્યસરિના ભયથી કેટ બનાવી કિલ્લાના બહાને પરિવાર સહિત કામદેવ રહી ગયું ન હોય તેમ reणाय छे. ॥१४॥
यदनन्यहिरण्यशीतरु-ग्मणिकप्तालयलक्ष्मिकाक्षया ।
चरणं मुरवैरिणोऽनिशं, शुचिचन्द्रावुपचेरतुः किमु ॥१४४॥ यस्याः नारदपुर्या अनन्यानामसाधारणानां हिरण्यैः सुवर्णैः तथा शीतरुग्मणिभिः चन्द्रकान्तरत्नैः क्लप्तानां निर्मितानाम् । सुवर्णचन्द्रकान्तमयानामित्यर्थः । आलयानाम् । अनेकमन्दिराणामित्यर्थः । लक्ष्म्याः शोभायाः । लक्ष्मीशब्दः शब्दभेदे ह्रस्वोऽप्यस्ति । तथा समासमध्ये हस्वशब्दानयने न दोषः । यदुक्त जिनप्रभसूरिकृतचतुर्विशतिजिनस्तव. ऋषभनने–'चरणलक्ष्मिकरग्रहणोत्सवे' इति । उत्प्रेक्ष्यते--शुचिचन्द्रौ सूर्याचन्द्रमसौ । 'हरिः शुचीनौ गगनाध्वजाध्वगौ' इति हैम्यां रविनामानि । मुरवैरिणो विष्णोश्चरणं पदं अनिशं निरन्तरं किमु उपचेरतुः सेवेते स्म ।।
કાઈ નારદપુરી નગરીનાં સુવર્ણરચિત અને ચંદ્રકાન્ત મણિરચિત અસાધારણ શોભાવાળાં અનેક