________________
४३८
हीरसौभाग्यम् [सर्ग ६ श्लो० १४०-१४२ श्रितनागसगन्धसारभू-रूहमाला व्यलसनिहाचलः । मलयस्य विलासमूर्तयः, शमनाशाङ्कमपास्य हृष्यतः ॥ १४० ॥
इह मेदपाटमण्डले अचलाश्चित्रकूटप्रमुखाः पर्वता व्यलसन् विभान्ति स्म । किंभूताः । श्रिता नागा हस्तिनो यैः । तथा सह गन्धैः परिमलैस्तथा सारैर्मजाभिर्वर्तन्ते तादृश्यो भूरुहाणां विविधवृक्षाणां मालाः श्रेणयो येषु । पश्चात् कर्मधारयः । उत्प्रेक्ष्यतेमलयस्य दक्षिणाचलस्य विलासेनाक्रीडया अथवा विलासार्थ मूर्तय काया इव । किंभूता मूर्तयः । श्रिता नागा भुजगा याभिः । 'रुद्धाश्चन्दनपादपा विषधरैरम्भोरुहाः [कण्ट]. कैः' इति सूक्तोक्तेः । अथ अन्येषामपि द्रुमाणां कोटरेषु प्रायो भुजंगा भवेयुरिति सगन्धसाराः चन्दनद्रुमकलिता भूरुहाणां रसालसाल'नागप्रियंगुलवङ्गादितरूणां मालाः पक्तयो यासु । मलयस्य किं कुर्वतः । शमनस्य यमस्याशाया वाञ्छाया अकमुत्सङ्गम् । नत्वतस्तु दक्षिणादिक्क्रोडम् । अपास्य त्यक्त्वा हृष्यतः प्रमोद प्राप्नुवतः प्रायो दुष्टाशयसमीपं त्यजन् जनः संतुष्यति ॥ इति मेदपाटमण्डलः॥
' કલેકાર્થ વળી મેવાડદેશમાં, હસ્તિઓ અને ચંદન આદિ સુગંધી વૃક્ષની પંક્તિઓ વડે શેભતા ચિત્રફૂટ ચિતોડ આદિ પર્વત શમે છે. તે જાણે યમરાજાની ગોદન (દક્ષિણદિશાનો ત્યાગ કરીને આનદપૂર્વક રહેલી મલયાચલ પર્વતની વિલાસ મૂર્તિઓ ન હોય. ? ૧૪મા
इह नीवृति नारदाभिधा, नगरी नागपुरीव राजते ।
बलिराजविराजितान्तरा, रममाणानणुभोगिभाजिनी ।। १४१ ।। इहास्मिन् नीवृति मण्डले नारदाभिधा 'नडुलाई' इति नाना लोकप्रसिद्धा नारद इत्यभिधा नाम यस्यास्तादृशी नगरी नागपुरीव भोगवतीव राजते दीप्यते । किंभूता। बलिना बलवता राशा विशेषेण राजितं शोभितं अन्तरं मध्य यस्याः । पक्षे-बलिनाम्ना नृपेण दानवाधिपतिना भूषितमन्तरं मध्य बलिवेश्मत्वात् । पुनः किंभूता। रममाणाः स्वैर क्रीडां कुर्वाणाः अनणवो महान्तो भोगिनो राज्यादिसुखवन्तो विलासिनस्तान् भजतीत्येवंशीला । पक्षे-खेलनमहाकायभुजगकलिता ॥
મેવાડ દેશમાં નાગપુરી જેવી નારદ (નાડુલાઈ) એ નામની નગરી શોભે છે, બલવાન રાજાથી જેને મધ્યભાગ શોભે છે તેવી તે નગરી છે બલિ' નામના દાનથી જેને મધ્યભાગ શોભે છે તેવી નાગપુરી હોય છે. સ્વેચ્છાપૂર્વક ક્રીડા કરી રહેલા ભોગીજનો નગરીમાં વસે છે. મહાકાય નાગો જે નગરીમાં કીડા કરી રહ્યા છે, આમ નાગપુરી જેવી નારદપુરી શોભે છે. ૧૪૧.
उपमातुविमामरावती, भुवने तन्निभभावदुर्विधे । कृतवानरविन्दनन्दनः, पुरमेतां विबुधैरुपासिताम् ॥ १४२ ।।