________________
सर्ग ६ श्लो० १३७-१३९] हीरसौभाग्यम्
४३७ रस्य लज्जातिरेकस्योदयादाविर्भावाद् भुवस्तल भूमेरघोविभाग भजति शीलतीव । वी. डशब्दोऽकारान्तोऽपि नाममालावृत्तौ तथा 'ब्रीडायां च भवेद् बीडः' इति शब्दप्रमेदे ॥
सो સ્વર્ગલોકને પણ જીતી લે તેવા પ્રકારની આ મેવાડદેશની શોભાથી અપમાનને પામેલા નાગલકે લજજાના ભારથી જ જાણે પાતાલલોકને આશ્રય કર્યો ન હોય ! ૧૩
अलकायितपूःपरम्पराः, परमं बिभ्रति यत्र विभ्रमम् ।
नभसोऽनवलम्बनच्युतेः, शतशोऽशा इव भूतले दिवः ॥१३८॥ यत्र देशे अलकायिता सर्वसमृद्धया धनदनगरीवदाचरिताः पूरपरम्पराः पुरीपक्तयः परममुत्कृष्टं विभ्रमं शोभां बिभ्रति धारयन्ति । उत्प्रेक्ष्यते-नभसः आकाशादनवलम्बनेन आधाररहितत्वेन च्युतिः पतनं यस्यास्तादृश्या दिवो देवलोकस्य भूतले भूमिमण्डले शतशः शतसंख्याका अंशा भागाः खण्डा इव ॥
. . આ મેવાડદેશની નગરીઓ જાણે ધનદપુરી (કુબેરની નગરી) અલકાપુરીની પંક્તિઓ ન હોય ? તેવી સત્કૃષ્ટ શોભાને ધારણ કરે છે. તે નગરીઓ જાણે આકાશમાં રવ નિરાધાર હેવાથી, પૃથ્વી ઉપર પડી ગયેલા સ્વર્ગલોકના જાણે સેંકડો ખડે (ટુકડા) ના હેય ! ૧૩૮
त्रिजगद्विजयोद्यतस्य य-द्वनराज्यो रतिजानिधन्विनः ।
मुमसंगतषट्पदा धनु-विशिखोल्लासिखलूरिका इव ॥ १३९ ॥ यद्वनराज्यो मेदपाटमण्डलसंबन्धिन्यो विविधविपिनश्रेणयः शोभन्ते इति संबन्धः । किंभूताः । सुमेषु पुष्पेषु संगतो विकसत्यत्र प्रकरनिःसरदमन्दमकरन्दपानागमनेन मिलिता अथवा मकरन्दपानलोलुपतया समेत्यान्तनिलीयमानाः षट्पदा मधुकरा यासु ताः। उत्प्रेक्ष्यन्ते-त्रिजगद्विजयोद्यतस्य त्रिमुवनजनपरम्परापराभवनविनिर्मितोद्यमस्य रतिर्जाया यस्य स रतिजानिः । 'जायाया निडू' इतिनिप्रत्ययः । 'लोपो व्योवलि' इति यकारलोपे सिद्ध जानिरिति प्रक्रियाकौमुद्याम् । रतिपतिः स एव धन्वी धनुर्धरस्तस्य कुसुमायुधधानुष्कस्य धनू षि कोदण्डा विशिखा बाणास्तैरुल्लसन्ति शोभन्ते इत्येवंशीलाः खलूरिका धनुर्विद्याभ्यसनभूमय इव । यत्र धनुःपरिश्रमः क्रियते ॥ .
લેકાર્થ
મેવાડદેશમાં પુના રસમાં લાલુપી બનીને રહેલા શ્રમવાળી વનરાજીઓ શોભે છે ! તે વનરાજી જાણે-ત્રણ જગતને જીતવા માટે ઉદ્યત થયેલા કામદેવરૂપી ધનુર્ધારીના ધનુષ ઉપર રહેલા બાવડે શોભતી ધનુર્વિદ્યાની અભ્યાસભૂમિ ન હોય! dhaહા