________________
४३४
हीरसौभाग्यम्
"
अभजन्त यतित्रजा विभुं विहगाः स्मेरमिवावनीरुहम् । पृणति स्म स तान्पुनर्महोदयसस्य प्रदिशन् स तानिव ॥ १३० ॥
[ सर्ग ६ श्लो० १३० - १३२
यतिव्रजास्तपागणश्रमणसमूहा विभुं हीरविजयसूरिमभजन्त सेवन्ते स्म । के इव । विगा इव । यथा पक्षिणः स्मेरं विकसितमवनीरुह वृक्ष सेवन्ते । पुनः स सूरिस्तान मुनिमण्डलान् पृणति स्म प्रीणाति स्म । किं कुर्वन् सः । महोदयो मोक्षो महानुदयो वा स पव सस्य फलं प्रदिशन् प्रयच्छन् ददानः । क इव । स इव । यथा स स्मेरावनीरुहः फल स्वस्य विश्राणयन् विहगान् प्रीणाति । 'प्रीणाति प्रीणयति च पृणतीति प्रीणनार्थाः स्युः' इति क्रियाकलापे ॥ इति हीरविजयसू रेस्तपागच्छसाम्राज्यप्राप्तिः ॥
શ્લેાકા
જેમ પક્ષીએ નવપલ્લવિત વૃક્ષને ભજે, તેમ તપાગચ્છના સાધુએ હીરવિજયસૂરિની ઉપાસના કરતા હતા. વિકસિત વૃક્ષ જેમ ફલ આપીને પક્ષીઓને ખૂશ કરે, તેમ હીરવિજયસૂરિ સાધુએને મેાક્ષરૂપી લ આપીને ખૂશ કરતા હતા. ૫૧૩૦ના
कुनयानयता विनम्रतां, जयिनेव प्रतिगर्जतोऽमुना ।
दधताधरितः क्षमां ह्रिया, किमु पातालमहीश्वरोऽविशत् ॥ १३१ ॥
क्षमामतिशायिनीं क्षान्ति उपशान्ततामित्यर्थः दधता धारयता अमुना सूरिणा अधरितः हीनीकृतोऽधिकृतः सन् अहीश्वरः क्षमां पृथिवीं धरतीति तादृशः शेषनागः । उत्प्रेक्ष्यते - ह्रिया लज्जया किमु पाताल रसातलमविशत् प्रविष्ट इव । 'क्षमा क्षितिक्षा न्त्योः' इत्यनेकार्थः । अमुना किं कुर्वता । [ प्रतिगर्जतो वैतण्डिकान् ] कुनयान् कुपाक्षिकान् शाक्यादीन् विनम्रतां प्रणमनशीलतां नयता प्रापयता । केनेव । जयिनेव । यथा विजयकारिणा नृपतिना प्रतिगर्जन्तः स्पर्द्धिनः पार्थिवा विनम्रतां नीयन्ते । 'सुहृदयो हृदयः प्रतिगर्जताम्' इति रघुवंशे ॥
લેાકા
જયશીલ રાજા જેમ પ્રતિસ્પર્ધા રાજાએતે નમાવે, તેમ કુવાદીઓને નમાવતા એવા હીરવજયસૂરિએ, ક્ષમા ધારણ કરવાથી શેષનાગને તિરસ્કૃત કર્યાં તેથી જ જાણે શેષનાગ લજ્જા પામી પાતાલમાં પેસી ગયા ન હેાય ! ॥૧૩૧૫
परिशीलितशीललीलया, तुलयश्रीसकडालनन्दनम् ।
स गभीरतयेव सागर, गुणमाणिक्यनिधिः पराभवत् ॥ १३२ ॥
गुणाः शमदमार्जवमार्दवादयस्त पव माणिक्यानि रत्नानि तेषां निधिनिधान स सूरिरुत्प्रेक्ष्यते - गभीरतया त्रिजगज्जनातिशायिस्वगाम्भीर्येण सागर पराभवत्पराजैषीदिव । किं कुर्वन् । परिशीलितमाबालकालात्परिपालितं यद् शीलं ब्रह्मचर्यं तस्य लीला विला