SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ मर्ग ६ श्लो० १२३-१२५] हीरसौभाग्यम् तयो द्वादशभास्कराः तैरिव प्रमीयन्ते प्रमाणविषयीक्रियन्ते इति सहस्रदीधितिप्रमितानि तादृशान्यावर्तनानि हस्तावर्तकरणानि येषु तादृशानि । एतावता द्वादशावर्तवन्दनकानि अदात् ददाति स्म । किं कृत्वा । गणधारिणः गच्छधरस्य पदं समनुज्ञाप्य सम्यक्प्रकारेणानुक्षां दत्वा । किंवत् । जिनवत् । यथा जिनोऽर्थान्महावीरतीर्थकरः सुधर्मस्वामिनो गणधारिणः पदं समनुज्ञापयति ॥ લોકાર્થ મહાવીર પરમાત્માએ જેમ સુધર્મ સ્વામીને ગણધરપદની અનુજ્ઞા આપી, તેમ શ્રીવિદાનસૂરિ મહારાજે, સૂરિચક્રવતી શ્રી વિજયહીરસૂરિને ગચ્છની અનુજ્ઞા આપીને બાર સૂર્યપ્રમાણે બાર આવર્તે 43 (६६शात) वंदन यु. ॥१२॥ वशिनोऽस्य ततो वशंवदां, गणमृदभूमिमणिर्गणश्रियम् । वसुतस्य पितेव संपद, प्रणयेन प्रणिनाय नीतिमान् ॥१२४॥ ततो द्वादशावर्तवन्दनकप्रदानानन्तर गणभृत्सु गच्छधरेषु भूमिमणिः क्षोणीरत्न राजा विजयदानसूरीन्द्रः प्रणयेन स्नेहेन वशिनो जितेन्द्रियस्य अस्य हीरविजयसूरेर्गणश्रियं तपागच्छलक्ष्मी वशंवदामायत्तां प्रणिनाय चकार । 'सृजति करोति प्रणयति घटयति निर्माति निमिमीते च' इति करणार्थाः क्रियाकलापे । क इव । पितेव । यथा ज. नकः स्वसुतस्य निजपुत्रस्य संपदं गृहसंपत्तिमनुक्रमागतात्मगृहलक्ष्मी वशंवदा प्रणय ति । किंभूतः । नीतिमान् युक्तायुक्तविचारोपेतः । गुरुः पिता च ॥ इति समरथभणशालीकृतमहोत्सवपूर्वकश्रीहीरविजयसूरिपुरंदराचार्यपदनन्दिवन्दनकप्रदानवर्णनम् ॥ सार्थ નીતિમાન પિતા જેમ પુત્રને ઘરની સંપત્તિ અર્પણ કરે, તેમ ગચ્છાધિપતિઓમાં શિરોમણિ એવા વિજયદાનસૂરિ મહારાજે, અતિસ્નેહપૂર્વક જિતેંદ્રિય એવા હીરવિજયસરિને પોતાના ગચ્છની લક્ષ્મી અર્પણ કરી. ૧૨૪ मुदमादधिरे मुमुक्षव-स्तमवाप्याभिनवोदयं प्रभुम् । ननृते नरकद्विषं पुनर्गणलक्ष्म्या पुरुषोत्तम पतिम् ॥१२५॥ मुमुक्षवः संसारासारकारागार मोक्तुमिच्छवः तपागच्छसाधवः अभि सामस्त्येन नवः ‘णु स्तुतौ' नवन नवः स्तुतिस्तद्युक्तः प्रशंसास्पदं नवीनो वा उदयोऽभ्युदयन प्रा. दुर्भावो यस्य तादृशं प्रभु स्वामिन हीरविजयसूरिमवाप्य लब्ध्वा मुदमानन्दम् । अर्थान मानसे आदधिरे धारयन्ति स्म । पुनरर्थान्तरन्यासे गणलक्ष्म्या तपागच्छश्रिया नवी. नाभ्युदय तं पति नायक प्राप्य ननृते नर्तितम् । किंभूतम् । नरकस्य दुर्गतेविष वैरिणम् । पुनः किंभूतम् । पुरुषेषु सकलमनुष्येषु उत्तम आचार्यत्वात् श्रेष्ठम् । तथा श्रिया क्षीरनीरनिधेर्नन्दिन्यापि नरकासुरसंहारकारिण पुरुषोत्तम नारायण पतिं भर्तार संप्रा. प्य ननुते॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy