________________
सर्ग ६ श्लो०.११७-१२०] .. हीरसौभाग्यम्
४२९ શ્લોકાઈ ત્યારે પાટણમાં પાટણપતિ મુસલમાન રાજા બસેરખાં હતા. તેને ઋદ્ધિમાન અને બુદ્ધિમાં ચાણક્ય જેવો “ભણસાલી સમરથ નામને પ્રધાન હતા. ૧૧ળા
उपचक्रमिरे महामहा, अमुनाचार्यपदस्य नन्दये । शिवशैवलिनीवरोद्वहो-पयमार्थ प्रथमोत्सवा इव ॥११८॥
अमुना समर्थभणशालीसचिवेन आचार्यपदम्य नन्दये नन्दिकारापणार्थ महामहा अतिशयिन उत्सवा उपचक्रमिरे प्रारब्धाः । उत्प्रेक्ष्यन्ते-शिवमे(ए)व मुक्तिरूपो यः शैवलिनीनां नदीनां वरो भर्ता समुद्रस्तस्योद्वहा पुत्री लक्ष्मीस्तस्या उपयमः पाणिग्रहण तस्मिन् । सिद्धिलक्ष्मीविवाहे इत्यर्थः। प्रथमोत्सवा इव । आदिमाः क्षणा इव ॥
सार्थ મંત્રીશ્વર એવા સમરથભણસાલીએ પાટણમાં આચાર્યપદની ઉજવણી માટે પ્રથમ ઉત્સવની જેમ મહત્સવનો પ્રારંભ કર્યો, તે જાણે મુક્તિરૂપ સમુદ્રની પુત્રી શિવલક્ષ્મીના વિવાહેસૂવને પ્રારંભ કર્યો ન હોય ? ૧૧૮
पुरि जानपदीयमानव-जज आकार्यत तेन सेवकैः । ... पिकभृङ्गभरः स्वसौरभै-रिव कुजे स्मितचूतशाखिना • ११९॥
तेन समर्थभणशालिमन्त्रिणा सेवकैः स्वभृत्यवगैर्जानपदीयो गुर्जरमण्डलसबन्धी मानवव्रजो जनसमूहः पुरि पत्तननगरे आकार्यत आहूयते स्म । आमन्त्रित इत्यर्थः । केनेव । स्मितचूतशाखिनेव । यथा वसन्तसमयविकसितसहकारतरुणा स्वस्यात्मीयस्य सौ. रभैरामोदैः परिमलैः कृत्वा पिकभृङ्गभरः कोकिलमधुकरनिकरः कुञ्ज कानने आकार्यते॥
વાકાર્થ ' જેમ વસંતઋતુના વિરવર આમ્રવૃક્ષ પિતાની સુવાસ દ્વારા કોકિલા અને ભ્રમરોના સમૂહને વનકુંજમાં આમંત્રણ આપે છે, તેમ મંત્રીશ્વરે પોતાના સેવકો દ્વારા ગુર્જરદેશવત જનસમૂહને પાટણ પધારવા માટેનું આમંત્રણ આપ્યું. ૧૯
सुकृत प्रविधाय सत्क्रिया-ममुना संघजनस्य संमदात् ।
समचीयत शम्बल महो-दयपुर्या प्रयियासुना किमु ॥१२०॥ अमुना पत्तनाधीशधीसखेन सुकृतं पुण्यं समचीयत सम्यक्प्रकारेण पुष्टं क्रियते स्म । किं कृत्वा । संमदादतिहर्षात् संघजनस्य चातुर्वर्ण्यस्य सक्रियामशनपान(खादिम)स्वादिमवस्त्राभरणश्रीफलादिदानेन सत्कार प्रविधाय कृत्वा । उत्प्रेक्ष्यते-महोदयपुर्या निर्वृतिनामनगर्या प्रयियासुना प्रकर्षेण गन्तुमिच्छुना सता अमुना मन्त्रिणा शम्बल मार्गनिर्वाहकत्पाथेयं किमु सचितम् ॥