________________
%ARRIE
४२८
हीरसौभाग्यम् [सर्ग ६ श्लो० ११५-११७ द्युसदामिव मेदिनीरुहौ, जगतीजंगमतानुसङ्गिनौ ।
स्म विभूषयतः क्रमेण तो, विहरन्तावणहिल्लपत्तनम् ॥११५॥
क्रमेण विहारपरिपाटया तो विजयदानहीरविजयसूरीन्द्रौ अणहिल्लनाम पत्तन वि. भूषयतः स्म अलंचक्रतुः । किं कुर्वन्तौ । उत्प्रेक्ष्यते-द्युसदां देवानां मेदिनीरुही पादपो कल्पवृक्षाविव । किंभूतौ । जगत्यां भूमिपीठे जंगमतायाः संचरणशीलत्वस्य अनुसङ्गः सङ्गोऽस्त्यनयोस्तौ ॥
કલેકાર્થ અનુક્રમે વિહાર કરતા અને આચાર્યોએ અણહિલપુર પાટણને શોભાવ્યું. અર્થાત પાટણ નગ રમાં પધાર્યા. તે બન્ને જાણે આ પૃથ્વીના જંગમ કલ્પવૃક્ષ ન હોય ? ૧૧૫ .. श्रमणधुमणी मणीव तौमुनिमुक्तावलिमध्यशालिनौ ।
पुरि तत्र तमोनिशुम्भनौ, गणलक्ष्मी मदयांबभूवतुः ॥११६॥
तत्र पुरि पत्तननगरे तौ विजयदानहीरविजयनामानौ श्रमणधुमणी मुनिमार्तण्डौ । सूरीन्द्रावित्यर्थः । गणलक्ष्मी तपागच्छश्रियं मदयांबभूवतुः । शृङ्गारकलितां कुर्वाते स्मे त्यर्थः । काविव । मणीव । नायकरत्ने इव । मणीवादिवर्जमिति द्विवचनेऽपि संधिः स्यात् । यथा मणीव दंपतीव रोदसीय । 'मणीव नीवोत्तरलौ विरेजतुः' इति नैषधेऽपि । किंभूतौ । मुनयः साधव एव मुक्तावलिमौक्तिकहारस्तस्य मध्ये शालेते इत्येवंशीलौ । पुनः किंभूतौ । तमसामज्ञानान्धकाराणां निशुम्भनौ व्यापादको । नायकमणी अपि स्त्रियं समदा सृजतः मुक्तावलिमध्यस्थायिनौ तमोनिहन्तकौ च ॥ इति द्वयोरपि सूरीन्द्रयोः पत्तने पादा घधारणम् ॥
લોકાઈ સાધુઓ રૂપી મુક્તાહારના બે મધ્યમણિ સમાન અને અજ્ઞાનરૂપી અંધકારના નાશક એવા બને સુરીન્દ્રોએ અણહિલપુર નગરમાં તપાગચ્છની લક્ષ્મીને શંગારયુક્ત કરી અર્થાત શણગારી ૧૧૬
अथ तत्र समर्थनामभृ-दणशाली भवति स्म भूतिमान् । सचिवो यवनत्य भूभुजो, मतिवाधिश्चणकाङ्गजन्मवत् ॥११७॥
अथ पत्तनागमनानन्तर तत्राणहिल्लपत्तने समर्थ इति नाम बिभर्तीति समर्थनामभृत् भणशाली वक्षस्कारव्यापारकारिणां कश्चित् संझाविशेषः भवति स्माभवत् । एतायता समरथभणशालीतिनामा । किंभूतः । सचिवः प्रधानः। कस्य । भूभुजः पत्तनाधीशस्य सेरखानस्य । किंभूतस्य । यवनस्य 'पठाण' इति नाम म्लेच्छजातीयस्य । पुनः किंभूतः । भूतिमान् हस्तितुरगादिलक्ष्मीकलितः । पुनः किंभूतः । मतिवाधिः बुद्धिसमुद्रः । किंवत् । चणकाङ्गजन्मवत् । यथा चणकनामा द्विजविशेषस्तस्याङ्गजन्मा पुत्रश्चाणक्यो धीनिधिरभूत् ।