SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सर्ग ६ श्लो० १०७-१०९] हीरसौभाग्यम् ४२५ गुरुर्विजयदानसूरिः साधुभिः उपाध्यायपण्डितादिमुनिभिः कृत्वा त हीरहर्षोपा. ध्यायमजूहवत् आकारयामास । किंभूतं तम् । त्रिदश्या शासनदेवतया शंसितः श्लाघितो भाग्यस्य सुकृतस्य पुण्योदयस्य वैभवः संपद् यस्य । इवोत्प्रेक्ष्यते-भूर्त मूर्तिमन्तमगीकृताङ्ग त्रिशलायाः सिद्धार्थपृथिवीपतिपन्यास्तनुजन्मनो नन्दनस्य श्रीमन्महावीरदेवस्य शासनस्य अभ्युदयमुन्नतिमिव ॥ લેકાર્થ ત્યારપછી ગુદેવે, પંડિત, ઉપાધ્યાય આદિ સાધુઓ દ્વારા તેમજ શાસનદેવીથી પ્રશંસા કરાયેલા એવા પુણ્યના પ્રાક્ષારવાળા હીરહર્ષ ઉપાધ્યાયને બોલાવ્યા. જાણે તેઓ (હીરહર્ષ ઉપાધ્યાય) ભગવાન મહાવીર પરમાત્માના શાસનના અભ્યયની સાક્ષાત મૂર્તિ ન હાય ! ૧૦૭ गगनात्मरसेन्दुहायने, विशदे पौषजपञ्चमी दिने । धृतशीतरुचीरुचिच्छलो-ज्ज्वलवस्त्रे किमु तत्पदोत्सवे ॥१०८॥ व्रतिवारिधिनेमिवासवः, स्वपदे स्थापितवान् स वाचकम् । इव पञ्चमक गणाधिपं, मृगराजध्वजतीर्थनायकः ॥१०९॥ (युग्मम् ) स विजयदाननामा बनिनां श्रमणानां वारिधिनेमेर्वसुंधरायाः नायकः स्वामी । राजा इत्यर्थः । सूरिः त हीरहर्षनामान वाचकमुपाध्याय स्वपदे निजपट्टे स्थापितवान् संस्थापयामास । क इव । मृगराजध्वजतीर्थनायक इव । यथा मृगराजः सिंहो ध्वजश्चिह्न लाञ्छन यस्य तादृशस्तीर्थनायकस्तीर्थेश्वर एतावता श्रीमहावीरजिनः पश्चानां संख्यापू. रणः पञ्चमः पञ्चम एव पञ्चमकः, तं गणस्य साधुसमुदायरूपगच्छस्य नायक स्वामिन पञ्चशतच्छात्रैः समप्रव्रजितत्वात् । तद्वयतिकरे पञ्चशतसाधूनां गणस्य नाथ गणधर सुधर्मस्वामिन स्वपदे स्थापयति स्म । कस्मिन्हायने । गगनमाकाश शून्यम् (०), आत्मा क्षेत्र एकः(१), रसास्तिक्तादयः षट् (६), इन्दुश्चन्द्रोऽप्येकः (१). तन्मितहायने वत्सरे विक्रमादित्याद्दशाधिकषोडशशत (१६१०) वर्षातिक्रमे । कुत्र दिवसे । पौषजपञ्चमीदिने पौषमासे जाता या पञ्चमी नानी तिथिस्तद्दिवसे । किंभूते । विशदे शुक्ले । उत्प्रेक्ष्यते. तत्पदोत्सवे तस्य हीरहर्षोपाध्यायस्य पदस्याचार्यपदप्रदानस्य उत्सवे महामहे धृतं परिहित शीतरुचीरुचिः चन्द्रचन्द्रिका तस्याश्छलेन कपटेन उज्ज्वल धवल वस्त्र वसन येन एवंविधे इव वासरे। शुक्लपञ्चमीदिने इत्यर्थः ॥ संवत् १६१० वर्षे पौषमासे शुक्लपञ्चमीवासरे श्रीहीरहर्षवाचकस्य सूरिपदस्थापना ॥ इति श्रीहीरविजयसूरेराचार्यपदस्थापना ॥ લોકાર્થ જેમ મહાવીર પરમાત્માએ પોતાની પાટે પાંચમા ગણધર શ્રી સુધર્માસ્વામીને સ્થાપન કર્યા હતા, તેમ શ્રમણાધિપતિ આચાર્ય વિજયદાનસૂરિજીએ વિક્રમ સંવત ૧૬૧૦ વર્ષે પોષ સુદી પંચમી ના દિવસે હરહર્ષ ઉપાધ્યાયને પોતાની પાટે સ્થાપન કર્યા. અર્થાત આચાર્યપદ પ્રદાન કર્યું. તે હીરહર્ષઉપાધ્યાયના આચાર્ય પદપ્રદાન મહેસવમાં ચંદ્ર પણ ચ દ્રિકાના બહાને જાણે ઉજજવલ વસ્ત્ર
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy