________________
.४२०
हीरसौभाग्यम् [सर्ग ६ श्लो० ९४-९६ स सूरिः अर्थाद्धयानस्थः एव कानिचिद्दिनानि कियत्प्रमाणान् वासरान् गमयामासातिकामति स्म । किं कुर्वन् । अन्तश्चित्तमध्ये अनुत्तरामनन्यसामान्यां मुदं हर्ष दधद् धारयन् । क इव । हेमकन्दल इव । यथा विद्रुमः अन्तरा स्वमध्ये शितिवल्लीं कृष्णलतां 'कालीवेली' इति प्रसिद्धां धत्ते । किं कृत्वा । तदीयां शासनदेवतासंबन्धिनी गिर बाणी निपीय पीत्वात्यादरेण निशम्य ॥
શ્લોકાર્થ
જેમ પ્રવાલ, પિતાની મધ્યમાં કૃષ્ણલતા (કાળીવેલ પ્રાયઃ ચિત્રાવલી) ને ધારણ કરે છે, તેમ શાસનદેવીની વાણીસુધાનું આદરપૂર્વક પાન કરીને પોતાના ચિત્તમાં અસાધારણ આનંદને ધારણ કરનારા ધ્યાનસ્થ એવા આચાર્યદેવના કેટલાક દિવસો વ્યતીત થયા ૯૪ા
अथ साधुसुधाशनाधिपः, प्रणिधान परिपूर्य सूर्यरुकू । शशभृच्छरदभ्रकादिव, प्रणिधानास्पदतो विनिर्ययौ ॥१५॥
अथ शासनदेवताप्रत्यक्षागमनध्यानसंपूर्णीभवनानन्तरं साधूनां मुनीनां मध्ये सुधा. ममृतं अनन्तीति अशन भोजन येषां वा ते सुधाशाः देवाः तेषामधिपः स्वामी इन्द्रः एतावता बिजयदानसूरिपुरंदरः प्रणिधानस्य ध्यानस्यास्पदं स्थान ततो विनिर्ययो बहिराजगाम । क इव । शशभृदिव । यथा चन्द्रः शरदभ्रकात् शरत्कालसंबन्धिनोऽभ्रकान्मेघान्मेघवर्धकाद्वा निर्गच्छति । किं कृत्वा प्रणिधान सूरिमन्त्रस्य जाप स्मरण परिपूर्य स. माप्य परिपूर्णीकृत्य । किंभूतः । सूर्यस्येव देदीप्यमाना रुक कान्तिर्यस्य । विधुरपि सूर्यस्य रुचो दीधितयो यस्मिन् । 'पुपोष वृद्धि हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः' इति रघौ ॥
લેકાર્થ ત્યાર પછી મુનીન્દ્રદેવેન્દ્ર અને સૂર્યસમાન દેદીપ્યમાન કાંતિવાળા આચાર્યદેવ, સૂરિમંત્ર જાપ પૂર્ણ કરીને જેમ શરઋતુના વાદળમાંથી ચંદ્ર બહાર આવે, તેમ માનભૂમિમાંથી બહાર પધાર્યા, ૯પા
स बभाज समाजमात्मना, श्रमणानां श्रमणावनीमणिः । क्षितिमानिव बाहुजन्मनां, विलसन्मङ्गलतूर्यनिस्वनैः ॥९६॥
स प्रसिद्धः सूरिपरम्परायातः प्रणिधानविधाता वा श्रमणावनीमणिः यतिराजः आत्मना स्वेन श्रमणानां साधूनां समाज पर्षद बभाज शिश्राय । क इव । क्षितिमानि. व । यथा भूपतिर्बाहुब्रह्मणो भुजोत्पत्तिर्येषां ते बाहुजन्मानः क्षत्रियास्तेषाम् । 'क्षत्र तु क्षत्रियो राजा राजन्यो बाहुसंभवः' इति हैम्याम् । 'तत्तस्मिन्विनिमज्ज्य बाहुजभटैरारम्भि रम्भा-' इति नैषधेऽपि । सभां भजते । कैः । विलसतां हर्षोत्कर्षात्प्रतिदिश मधुर वाद्यमानानां मङ्गलकारिणां तूर्याणां वाद्यानां निस्वनैर्निर्घोषैः समम् ॥