________________
सर्ग ६ श्लो० ९१-९४] हीरसौभाग्यम्
४१९ विलासेषु क्रीडासु लालसाः साभिलाषास्तादृशा भ्रमरीभूता मधुकरा इवाचरिता वसुं. धराधवाः राजानो यस्य, राजसेव्यो भावीत्यर्थः ॥
શ્લોકાર્ધ હે ભગવન, હીરહર્ષ ઉપાધ્યાય આ પૃથ્વી ઉપર માહાભ્યરૂપી લક્ષ્મીના મંદિરરૂપ બનશે. તેમજ તેમના ચરણકમલમાં ક્રીડા કરવાના અભિલાપી એવા રાજાઓ ભ્રમરરૂપ બનશે અર્થાત્ રાજાએને પણ ઉપાસ્ય બનશે
अयमेव हि हीरवाचको-ऽस्त्युचितः मरिपदस्य नापरः ।
धरणीधवसू नुरेव य-द्वसुधाधीशपदस्य नेतरः ॥९२॥
हे प्रभो, हि निश्चित अयमेव एष हीरहर्षवाचकेन्द्र एव सूरिपदस्याचार्यपदस्था. पनाया उचितो योग्योऽस्ति । परं नापरः नान्यः शिष्यः । यद्यस्मात्कारणाद्वसुधाधीशपदस्य राज्यस्योचितो धरणीधवस्य भूमीविभवस्य राज्ञः सूनुः राजपुत्रः एव पर नेतरजातीयः हीनकुलीनः॥
કલોકાર્થ માટે હે ભગવન, જેમ રાજપદને યોગ્ય રાજપુત્ર જ હોય છે, બીજું કંઈ નહીં, તેમ આ હીરહઈ ઉપાધ્યાય જ આચાર્યપદને યોગ્ય છે, અન્ય કોઇ શિષ્યો નહીં. હરા
प्रणिगद्य पुरो गुरोरिद, प्रमदेनापि विनम्य तत्पदम् ।
त्रिदशी क्षणतस्तिरोदधे, स्तनयित्वा स्तनयित्नुपङ्क्तिवत् ॥९३॥
त्रिदशी शासनदेवता । 'निपीय त यस्त्रिदशीभिरर्जितः' इति नैषधे । क्षणतः क्षणमात्रात् तकतलमेव तिरोदधे अदृश्या बभूव । किं कृत्वा । गुरोः सूरेः पुरोऽने . इदं प्रागुक्तं प्रणिगद्य कथयित्वा । अपि पुनः प्रमदेन हर्षेण तत्पदं गुरुचरण विनम्य विशेषेण पञ्चाङ्गभूस्पर्शनादिना नत्वा अदृश्यीभूता । किंवत् । स्तनयित्नुपतिवद्यथा मेघमाला स्तनयित्वा गर्जित्वा विनम्योन्नतीभूयार्थाद्वर्षयित्वा तिरोधत्ते ॥ इति विजयदानसूरिपुरो ध्यानप्रत्यक्षीकृतशासनदेयताप्रोक्ताचार्यपदोचितकथनम् ॥
બ્લેકાર્થ આ પ્રમાણે ગુરુદેવને કહી અત્યંત હર્ષ પૂર્વક પંચાંગ પ્રણામ કરી શાસનદેવી એક ક્ષણમાં અંતર્ધાન થઈ ગઈ. જેમ મેઘમાલા વરસને અદશ્ય થઈ જાય, તેમ વિજળીના ચમકારાની જેમ દેવી અદશ્ય થઈ ગઈ. ઘટયા
स तदीयगिरं निपीय तां, शितिवल्लीमिव हेमकन्दलः । मुदमन्तरनुत्तरां दध-द्रमयामास दिनानि कानिचित् ॥९४॥