________________
हीरसौभाग्यम् सर्ग ६ श्लो० ८८-९१ धुन्यौ सवन्ती' इति हैम्याम् । पतिर्भर्ता समुद्रो येन । किं निजगाद तदाह-हे देवि, त्वं वद कथय । मे पदस्य पट्टस्य कस्मान्मुनेमद्विनेयादभ्युदयो भविता भविष्यति। कस्याः कस्येव । शरदो मुनेरिव । यथा शरत्समयादगस्तेरुदयो भवति । यथा रघौ शरद्वर्णने-'प्रससादोदयादम्भः कुम्भयोनेर्महौजसः' इति । 'मुनिद्रुमः कोरकितः शितिद्युतिः' इति नैषधे 'मुनिद्रुमः अगस्तिवृक्षः' इति तद्वत्तौ ॥
પ્લેકાર્થ દેવીનાં વચન સાંભળીને, પોતાની ગંભીરતાથી સમુદ્રને પરાજિત કરનારા શ્રી વિજ્યદાનસરિજીએ આ પ્રમાણે કહ્યું. હે દેવી ! તું જ કહે કે શરદઋતુથી જેમ અગસ્તિને ઉદય થાય છે, તેમ મારી આ પાટને અભુલ્ય કોણ પુણ્યશાળી પુરુષ(મુનિ)થી થશે ? li૮૮
अवधेरनुभावतो गुणै-रसमानं जिनमेदिनीन्द्रवत् । अतिथिं प्रविधाय भृङ्गव-द्धृदयाम्भोरुहि हीरवाचकम् ॥८९॥ अनयेत्थमभण्यत प्रभु-भगवनभ्रमणेर्दिनादिव । भविता भवतः पदोदयो, भुवि नाथीसुतसाधुसिन्धुरात् ॥९०॥ (युग्मम् )
अनया शासनदेवतया प्रभुर्विजयदानसूरिरित्थममुना प्रकारेणाभण्यत प्रोच्यते स्म । किं कृत्वा । अवधेरवधिज्ञानस्यानुभावतः प्रभावात् । 'अवधिः स्यादवधाने कालसीमाव. लेषु' इत्यनेकार्थः । हृदयाम्भोरुहि हृदयारविन्दे भृङ्गवत् भ्रमरमिव हीरवाचक हीरहर्षोपाध्याय अतिथिं प्राघुणक प्रविधाय । हृदि शात्वेत्यर्थः । किंभूत हीरवाचकम् । गुणैः संयमशमदमज्ञानादिभिरसमानमसाधारणम् । किं च जिनमेदिनीन्द्रवज्जिनराजमिव । कि मभाणि । हे भगवन् , भुवि पृथिव्यां नाथीसुतो हीरहर्षः स एव साधुषु श्रमणेषु सिन्धु. रो हस्ती तस्मादेतावता हीरहर्षोपाध्यायात् ते तव पट्टम्याभ्युदयो भविता भविष्यति । कस्मात् कस्येव । दिनादभ्रमणेरिव। यथा दिवसात् सूर्यस्य अभ्युदयो भवेत् ॥
સુરિજનાં વચન સાંભળીને શાસનદેવીએ અવધિજ્ઞાનના પ્રભાવથી, જિનેશ્વર ભગવાનની જેમ શભદમજ્ઞાનાદિ ગુણોથી અપ્રતિમ એવા હીરહર્ષ ઉપાધ્યાયને ભ્રમરની જેમ પોતાના હદયકમલના મહેભાન બનાવીને, અર્થાત યોગ્ય જાણીને આ પ્રમાણે કહ્યું. હે ભગવન આ પૃથ્વી ઉપર સાધુઓમાં ગંધહસ્તિસમાન એવા નાથાદેવીના નંદન હીરહર્ષ ઉપાધ્યાયથી, જેમ દિવસથી સૂર્યને અભ્યદય થાય છે, તેમ આપની પાટનો અભ્યદય થશે. ૮૯૯૦)
पदपद्मविलासलालस-भ्रमरीभूतवसुंधराधवः । भगवन् ! स युगप्रधानव-महिमश्रीभवन भविष्यति ॥११॥
हे भगवन् . स हीरहर्षोपाध्यायो युगग्रधानवद्वज्रस्वामिप्रमुखयुगप्रधानाचार्य इव महिमश्रिया माहात्म्यलक्ष्म्या भवन गृह भविष्यति । किंभूतः । पदपद्मयोश्चरणकमलयो