SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४१६ हीरसौभाग्यम् सर्ग ६ श्लो० ८३-८६ ___ अथ शिवपुर्यागमनानन्तर मुनीश्वरः श्रीविजयदानसूरिः प्रणिधान ध्यान विदधे कृतवान् । क्व । तत्पुरे श्रीरोहिणीनगरे । किंवत् । सुस्थितसूरिशक्रवद् । यथा सुस्थितनामा सूरिषु शक्रः पुरंदरः अर्थात् काकन्यां नगर्या ध्यान करोति स्म । किं कर्तुकामः मनाः)। गणपुंगवस्य सूरेमन्त्र आचार्याणां परम्परया आगत (गौतमगणभृत् किं) मन्त्र' अन्वह निरन्तरम् । त्रिमासी यावदित्यर्थः । केन । विधिना षष्ठाष्टमचतुर्थाचाम्लादितपोविधान जिनसौभाग्यादिमुद्राप्रमुखशास्त्रोक्तगुरुपरम्पराप्राप्तप्रकारेण आराद्धं साधयितुं मनो यस्य॥ दार्थ શ્રીરહિણી (સિરોહી) નગરીમાં આવ્યા પછી સરિમંત્રની વિધિપૂર્વક આરાધના કરવાની ઈચ્છાવાળા શ્રી વિજયદાનસૂરિજીએ, જેમ કાકંદી નગરીમાં સૂરિપુંગવ શ્રીમુસ્થિતરિજીએ રિમંત્રનું આરાધન કર્યું હતું. તેમ સિરોહીનગરીમાં છદ, અટ્ટમ,ઉપવાસ અને આયંબિલ આદિ વિધાનપૂર્વક ત્રણ માસ પર્યત સુરિમંત્રનું આરાધન કરવાનું પ્રણિધાન કર્યું. શા विषयेऽप्यखिले तदा पुरी-पतिना मारिवारि जन्मिनाम् । परमाईतभूमिभास्कर, किमु संस्मारयितुं स्वयं नृणाम् ॥८४॥ तदा विजयदानसूरेनिविधानावसरे पुरीपतिना शिवपुरीस्वामिना दूदाभिधानभूपेन अखिले समस्तेऽपि विषये स्वमण्डले जन्मिनां द्विपदचतुष्पदपक्षिमत्स्यादीनां प्राणिनां मारिहिंसा अवारि निषिद्धा, अमारिः प्रवर्तिता । उत्प्रेक्ष्यते-परमार्हतः कुमारपालः । 'कुमारपालश्चौलुक्यो राजर्षिः परमाहर्तः ।' इति हैम्याम् । स एव भूमेः पृथिव्याः भा. स्करः सूर्यः । 'माध्यंदिनावधि विधेर्वसुधाविवस्वान्' इति नैषधे । एतावता कुमारपाल. भूपाल स्वयमात्मना नृणां मनुष्याणां संस्मारयितु स्मृतिगोचर कारयितु किमु ॥ साथ આચાર્ય મહારાજશ્રીના ધ્યાન કરવાના સમયે, શ્રીરહિણી નગરીના દૂતારાજાએ પિતાના સમતદેશમાં માનવ પશુ પક્ષી મત્સ્ય આદિ કોઈ પણ જીવની હિંસા કરવી નહિ આવું “અમારિ પ્રવર્તન કરાવ્યું. તે જાણે પરમહંત એવા કુમારપાલ મહારાજા મનુષ્યને પોતાનું સ્મરણ તાજું કરાવવાને માટે આ રાજવીરૂપે અવતર્યા ન હોય ! ૮૪ अनिश वरिवस्यितस्य त-तपसः सिद्धिरिवाङ्गसङ्गिनी । खककान्ततयातिहार्दतो, व्रतलक्ष्मीरिव वा वपुष्मती ॥८५॥ सुरसिन्धुरवत्कदाचन, प्रणिधानाम्बुधिमध्यगाहिनः । जिनशासनदेवताप्रभोः, प्रकटीभावमबीभजत्पुरः ॥८६॥ (युग्मम् ) कदाचन कस्मिन्नपि समये ध्यानपरिसमाप्तिव्यतिकरे जिनशासनदेवता शासनाधि ष्ठायिका सुरी (१) वाणी (२) त्रिभुवनस्वामिनी (३) श्रीदेवी (४) यक्षराज (५) गणिपिटका एते शासनाधिष्ठातारः । तत्र तिसृणां देवीनां मध्ये अन्यतमा अमरी देवता प्रभो
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy