SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ - ४१४ हीरसौभाग्यम् [सर्ग ६ श्लो० ७८-८० तुधर्मे स्थापयितु सूरेर्मुनीन्द्रस्य मूर्तित्रितयीव समुद्यता । तिम्रो मूर्तय इव प्रकटीभूताः॥ બ્લેકાર્થ શ્રમણરાજ શ્રીવિજયદાનસૂરિની, હીરહર્ષ, રાજવિમલ અને ધર્મસાગર આ ત્રણની પાચકત્રિપુટી અપૂર્વ શોભાને ધારણ કરે છે. તે જાણે ત્રણે જગતને પ્રતિબંધ કરવા માટે આચાર્યની આ ત્રણ મૂર્તિઓ પ્રગટ થઈ ન હોય ! ૭૮ विहरन् सह वाचकेन्दुना, शिवपुर्या समवासरद् गुरुः । वसुभूतिसुतेन संगतो, भगवान् राजगृहे यथान्तिमः ॥७९॥ वाचकेन्दुना प्रक्रमात् हीरहर्षउपाध्यायविधुना सह विहरन् महीमण्डले ग्रामानुग्राम सुख सुखेन विहार कुर्वन् गुरुर्विजयदानसूरिः शिवपुर्या श्रीरोहिण्यां सीरोहीनामनगरे समवासरत् समवसृतः । समागत इत्यर्थः । क इव । भगवानिव, यथान्तिमश्चरमो भगवांस्तीर्थकृत् श्रीमन्महावीरदेवः वसुभूतिनानो द्विजस्य सूतेन पुत्रेण गौतमस्वामिना संगतः सहितो राजगृहे समवसरति स्म ॥ કાથ ચરમતીર્થપતિ ભગવાન મહાવીર જેમ વસુભૂતિપુત્ર ગૌતમસ્વામીની સાથે રાજગૃહી નગરીમાં સમવસર્યા હતા, તેમ આચાર્યશ્રી વિજયદાનસૂરીશ્વરજી વાચકેમાં ઈકસમાન શ્રીહીરહર્ષગણીની સાથે મામાનુગ્રામ સુખપૂર્વક વિહાર કરતા શિવપુરી શ્રીરહિણી (સિહી) નગરીમાં પધાર્યા. છા त्रिदिवोजयिनी पुरीं तदा-जनि दूदाहनृपो विभूषयन् । सुखयजनतां वदान्यतां, कलयन् विक्रमभानुमानिव ॥८॥ तदा तस्मिन्नवसरे [श्रीविजयदान]हीरहर्षवाचककलितश्रीविजयदानसूरिपादावधारणसमये दूदा इति आह्ना अभिधान यस्य तादृशो नृपो राजा अजनि संजातः । द(अ)वस. रापेक्षया वर्तते इत्यर्थः । किं कुर्वन् । विभूषयन् शोभा लम्भयन् । काम् । त्रिदिव स्वर्ग अमरावती तात्स्थ्यात् तद्व्यपदेशात् स्वर्गनगरी स्वसमृद्धया उत्प्राबल्येन जयति पराभवतीत्येवंशीलां पुरीं श्रीरोहिणीम् । पुनः किं कुर्वन् । जनतां पुरजनपदवासिन सर्व लोकसमूह सुखयन् सुखीकुर्वन् । पुनः किं कुर्वन् । वदान्यतां दानशीलत्व कलयन्नतिशायिनमुदारभाव बिभ्रत् । क इव । विक्रमभानुमानिव । यथा विक्रमादित्यभूपालो जातः । सोऽपि लक्ष्म्या त्रिदिवतुल्यां उज्जयिनीमवन्तीम् । मध्यमपदलोपी समासः। भूषयन्नलंकुवन् परदुःखकातरबिर द वेनाखिललोक सुखयन् निर्विघ्न विदधत् कोटिशः सुवर्णटंककानां दातृत्वेन । 'अवलोअणे सहस्स आलावे दस सहस्साई। हसिऊण देइ लक्ख, परिओसे विक्कमो कोडी' ॥ इति स्वाभाविकदानम् । काव्यगाथादीनां कोटिशः सुवर्णानि इति दानिभावंच बिनाण इति ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy