SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ मर्ग ६ श्लो० ७६-७८] हीरसौभाग्यम् ४१३ अस्य श्रीहर्षप्रज्ञांशस्य वाचकाय उपाध्यायनामपदमजनि संजातम् । किंभूते मन्दिरे । वरकाणा इत्याख्या नाम यस्य तादृशेन फणीन्दुर्नागराजः केतुश्चिह्न यस्यैतावता श्रीवर्षकाणापार्श्वनाथेन समेत्य वरकाणापुरादागत्य शोभितेऽलंकृते । केनेव । सुहृदेव । यथा मित्रेणागत्यमित्रमन्दिर भूष्यते । कस्यां पुर्याम् । नारदपुरि पूर्वोक्तायां नारदपुर्याम् । उत्प्रेक्ष्यते-अनुत्तरैरसाधारणैविभवैः संपद्भिः कृत्वा हरेरिन्द्रस्य नारायणस्य वा पुरः अमरावत्या द्वारिकाया वा सख्यां वयस्यामिव । कदाऽजनि । कुलशैला अष्टौ (८), अभ्रः माकाशम् (0), रसास्तिक्तादयः षट् (६), आत्मा एकः (१), एतन्मिते वत्सरे हायने विक्रमार्कावनीन्द्रादष्टाधिकषोडशशते (१६०८)। कस्मिन्वासरे तपसो माघमासस्य । 'माघ. स्तपा' इति हैम्याम् । सिताया उज्ज्वलायाः पञ्चम्या दिने ॥ संवत् १६०८ वर्षे पण्डितहीरहर्षगणेर्वाचकपदस्थापना ॥ બ્લેકાર્થ નાગરાજના ચિહ્નવાળા શ્રી વરકાણુ પાર્શ્વનાથના મંદિથી અલંકૃત વરક્રાણુ નામના નગરથી પોતાની અસાધારણ સંપત્તિથી ઈદ્ર અથવા કૃષ્ણની નગરી અમરાવતી અથવા દ્વારિકાની પ્રિયસખી ન હોય તેવી નારદપુરીમાં આવીને, અર્થાત મિત્ર જેમ મિત્રમંદિરને શોભાવે, તેમ વરતાણાથી નારદપુરી આવીને શંખના ચિહ્નવાળા શ્રી નેમિનાથ ભગવાનના ચૈત્યમાં વિક્રમ સંવત ૧૬૦૮ વર્ષ માઘ શુકલપંચમી (વસંતપંચમીના દિવસે શ્રી હીરપંન્યાસને “વાચક નામનું પદ આપવામાં આવ્યું. અર્થાત હીરહર્ષગણિને ઉપાધ્યાયપદવડે અલંકૃત કર્યા. ૭પ૭૬ विबुधावथ राजपूर्वको, विमलो धर्मयुतश्च सागरः । सचिवाविव वाचकेश्वरौ, कृतवान् सूरिमहीपुरंदरः ॥७७॥ अथ पुनः सूरिमहीपुरंदरो विजयदानसूरिराजः विबुधौ पण्डितपदधारिणौ । प्रज्ञांशावित्यर्थः। एको राज इदं पदं पूर्व यस्य स राजपूर्वकः तादृशो विमलः च पुनः धर्म इति नाम्ना युतः सहितः सागरः एतावता राजविमलधर्मसागरनामानौ विबुधौ वाचकेश्वरौ उपाध्यायमुख्यौ कृतवान् । काविव । सचिवाविव । यथा महीमहेन्द्रः कौचिद्योग्यो प्रधानौ विदधाति ॥ શ્લેકાર્થ ત્યારપછી સૂરિપુંગવ શ્રી વિજયદાનસૂરિએ. જેમ કોઈ રાજા બે સુયોગ્ય પ્રધાનની નિયુક્તિ કરે તેમ રાજવિમલ અને ધર્મ સાગર નામના બે પંડિત (પન્યાસો)ને પણ ઉપાધ્યાય પદથી सात अर्या. ॥७७॥ श्रियमाश्रयते स्म वाचक-त्रितयी सा श्रमणावनीशितुः । प्रतिबोधयितु जगत्त्रयी-मिव मूर्तित्रितयी सत्रुद्दता ॥७८॥ श्रमणावनीशितुः विजयदानसूरिभूमीपतेः सा पूर्वोक्ता वाचकानामुपाध्यायानां त्रितयी श्रिय शोभामाश्रयते स्म शुशुमे । उत्प्रेक्ष्यते-जगत्रितयीं त्रैलोक्य प्रतिबोधयि
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy