________________
४१२
हीरसौभाग्यम् सर्ग ६ श्लो० ७३-७६ अथ नारदनाम्नि पत्तने, तुरगव्योमरसेन्दुवत्सरे । वृषभाङ्कजिनालये गिरे-रिव शंभोर्विभवैः सहोदरे ॥७३॥ पदमाप्यत पण्डिताहय, गणिना तेन यतिक्षितीशितुः ।
अभिभूय बुध बुधश्रिया, पदमस्यैव किमात्तमात्मना ॥७४॥ (युग्मम् )
अथ गुरुवन्दनानन्तर हीरहर्षगणिना यतीनां मध्ये क्षितीशितुः नृपाद्विजयदानसू. रीन्द्रात् पण्डित इति आह्वयं नाम एतादृशपदं प्रज्ञांशपदमित्यर्थः । आप्यत प्राप्तम् । उत्प्रेक्ष्यते-बधश्रिया भावप्रधाननिर्देशाद बुधत्वस्य पण्डितस्य लक्ष्म्या बुध रोहिणीनन्दनमभिभूय पराजित्य । त(अ)स्यैव बुधस्यैव पदमात्मना स्वेनात्त किं गृहीतमिव । कुत्र वत्सरे । तुरगाः सूर्याश्वाः सप्त (७), व्योमाकाशं शून्यम् (०) रसाः तिक्त कटु-कषाय-आ. म्ल-लवण-मधुराख्याः षट् (६), इन्दुश्चन्द्रः एक (१) एव, एतावता विक्रमार्कात् सप्तोत्तरे षोडशशतवर्षे (१६०७) । कुत्र पुरे । नारद इति नाम यस्य तादृशे पत्तने । पत्तनशब्दः सामान्यतो नगरवाची । 'नगरी पूः पुरी द्रङ्ग पत्तन पुटमेदनम्' इति हैमीवचनात् । न तु मुख्यवृत्त्येति । अथवा रत्नोत्पत्तिस्थानम् । 'पत्तन रत्नयोनिः' इति वचनात् । रत्नोपपमविजयसेनसूरेरुत्पत्तिस्थानकत्वाद्वा पत्तनम् । 'नडुलाई' नगरे इत्यर्थः । कुत्र स्थाने । वृषभाङ्कस्य सौरभेयध्वजस्यादिनाथस्यालये चैत्ये । उत्प्रेक्ष्यते-विभवैस्तुङ्गिमधवलिमादि. शोभाभिः कृत्वा शंभोरीश्वरस्य गिरेः शैलस्य कैलासस्य सहोदरे बान्धवे इव ॥ संवत् १६०७ वर्षे हीरहर्षगणेः पण्डितपदस्थापना ॥
શ્લોકાર્થ ગુરુદેવને વંદન કર્યા પછી સૂરિપુંગવ શ્રીવિજ્યદાનસૂરિ પાસેથી વિક્રમ સંવત ૧૬૦૭ વર્ષ નારદ (નાડલાઈ) નામના નગરમાં કૈલાસ પર્વત સમાન શ્રી આદિનાથ ભગવાનના મંદિરમાં હરહમુનિએ પંડિત (પંન્યાસ) નામના પદને પ્રાપ્ત કર્યું. તે જાણે, પંડિત પદની શોભાથી રોહિણીપુત્ર બુધને પરભવ કરીને સ્વયં જ બુધ-પદને ગ્રહણ કર્યું ન હોય ! અર્થાત્ ૧૬૦૭ વર્ષે શ્રીહરિહર્ષગણીની पडित (पन्यास)५४ी य ती . (२त्नाना उत्पत्तिस्थानने 'पत्तन' वाय छ,त। सही समान શ્રીવિજયસેનસૂરિનું ઉત્પત્તિસ્થાન હોવાથી નારદનગરને “પત્તન”સંજ્ઞા આપવામાં આવી છે.) Il૭૩૭૪
अपि नारदपुर्यनुत्तरै-रिव सख्यां विभौहेरेः पुरः । तपसः सितपञ्चमीदिने, कुलशैलाभ्ररसात्मवत्सरे ॥७५॥ सुहृदेव समेत्य शोभिते, वरकाणाख्यफणीन्दुकेतुना ।
जलजध्वजसार्वमन्दिरे, पदमस्याजनि वाचकाह्वयम् ॥७६।। (युग्मम् )
अपि पुनर्जलजः शङ्खो ध्वजश्चि यस्य स चासौ सार्वश्च । एतावता नेमिनाथतीर्थकृत् । जलजशब्देन शङ्खोऽप्युच्यते । यथा रघुवंशे–'ततः प्रियोपात्तरसाधरोष्ठे निवेश्य दध्मौ जलज कुमारः' इति । 'जलज कमले शङ्खे' इत्यनेकार्थेऽपि । तस्य मन्दिरे प्रासादे