SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् [ सर्ग ६ श्लो० ६९-७० मुनीश्वरो हीरहर्षगणिः पुरीनंगरीर्लङ्घितवान् अतिचक्राम । किंभूताः पुरीः । वृषा वृषभा तथा कन्याः कुमारिकाः मिथुनानि क्रीडासक्तानां यूनां पशूनां पक्षिणां वा युगलानि स्त्रीपुंसलक्षणानि अजाश्छागा हरिहर विरश्चिप्रतिमा वा । 'अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे' इत्यनेकार्थः । तैः राजन्ते इत्येवंशीलाः । का इव । मरुतां देवानां प वनानां वा पद्धतीर्मार्गानिव । देववीथीः किंभूताः । वृषकन्यामिथुनमेषनामानो राशयः तैः शोभन्ते इत्येवंशीलाः । पुनर्या सरितो नदीरुल्लङ्घितवान् । किंभूताः । मकरा जलयादांसि तैरन्विता युक्ताः तथा मीना मत्स्यास्तैः शालन्ते शोभन्ते इत्येवंशीला अपि । पुनः किंभूताः । सहाब्जैः कमलैः, तथा बलाहकैर्वकैर्वर्तन्ते यास्ताः । अपि वायुवीथीरिव । किंभूताः । मकर राशिकलिताः मीनराशिना शालन्ते । सहाब्जेन चन्द्रमसा तथा बलाह कैमैधैर्वर्तन्ते याः । 'गगनवीथीमिव सिंहराशिराजितां उत्पतङ्गामुत्क्षिप्तवृश्चिकामाविभूतसार्द्ररोहिणीमूलां च' इति चम्पूकथायाम् । पुनः पदवीर्मार्गानुललधे । किंभूताः । वल्गवः मनोशाः पल्लवपत्र प्रसून फलाकलितत्वेन रम्याः विष्टरा वृक्षा यासु । का इव । वसतीरिव । यथा गृहाः प्रकृष्टासनाः स्युः । 'विष्टरः पीठवृक्षयोः' इत्यनेकार्थः । पुनः किंभूताः । सह कुरङ्गैमृगैर्वर्तन्ते ये (याः) । का इव । शशिमण्डलीरिव । यथा चन्द्रबिम्बा लाञ्छनमृगः युक्ताः स्युः । पुनः किंभूताः । स्फुरन्ति पदे पदे दृश्यमानानि अप्प्रधानानि सरांसि यासु यथा इवार्थे । का इव । दिवो यथा । देववसतीः स्फुरन्त्य इतस्ततो भ्रमन्त्यः क्रीडन्त्यो वा अप्सरसः उर्वशीप्रमुखाः सुराङ्गना यासु ॥ इति विहारमार्गः ॥ શ્લેાકા ४१० હીરહ મુનિ, નગરીઓ, નદીઓ, અને અટવીએવાળી વિહાભૂમિને આકાશમાર્ગની જેમ અતિક્રમણ કરતા હતા ! આકાશ જેમ વૃષભ, કન્યા, મિથુન. અને મેષ રાશિવડે શૅાભે છે, તેમ નગ રીએ પણ વૃષભા (બળદેા) કુમારિકાઓ, ક્રીડામાં આસક્ત સ્ત્રીપુસ્ત્રનાં યુગલો, અને બ્રહ્મા આદિની મૂર્તિઓવડે શાલતી હતી. આકાશ જેમ મકરરાશિ, મીનરાશિ, ચંદ્ર અને મેષવડે શાબે છે તેમ જલજંતુઓ, મત્સ્યા, કમલા અને બગલાએવડે નદીએ શેાલતી હતી, ગૃહેામાં જેમ સુંદર આસનેા હોય– તેમ અટવીએમાં પહલવ, પત્રો, પુષ્પા અને લેવડે મનેાહર એવા વૃક્ષો હતા, મૃગલંછન સહિત ચંદ્રમંડલીની જેમ મૃગેાથી સહિત અટવીએ હતી. તેમજ આકાશમાં સ્થાને સ્થાને આમતેમ કીડા કરતી અપ્સરાઓ તેજ પ્રસારતી હાય છે તેમ જલવડે પરિપૂર્ણ સરોવરાવાળી વિહારભૂમિને હીરહમુનિ ઉલ્લંધન કરતા હતા. ઇિટાકા मरुदेशमभूषयत् क्रमा–दथ कुंराङ्गजसाधुसिन्धुरः । अतुलैरिव धन्वजन्मिनां, सुकृतैः स्वः शिखरी समीयिवान् ॥७०॥ अथ मार्गोल्लङ्घनानन्तरं कुंरागजो हीरहर्षः स एव साधूनां मध्ये सिन्धुरः क्रमादनुक्रमेण मरुनामान देश मण्डल' अभूषयत् शोभां नयति स्म । उत्प्रेक्ष्यते - धन्वनो मरुदेशसंबन्धिनो ये जन्मिनो जनास्तेषां न विद्यते तुला साम्यं येषां तैरसाधारणैः सुकृतैः पुण्यैः स्वः शिखरी कल्पद्रुमः इव समीयिवान् समाजगाम ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy