________________
४०९
सर्ग ६ श्लो० ६६-६९] हीरसौभाग्यम्
सविधे स्वगुरोः सगौरव, गमनायोत्सुकमाशयं ततः ।
अयमर्जितशास्त्रवैभवो-ऽधित सार्थेश इव व्रतीशिता ॥६६॥
ततः पठितानन्तरम् । अयं हीरहर्षनामा व्रतीशिता मुनिनायकः सगौरव सबहुमानौं यथा स्यात्तथा स्वगुरोः श्रीविजयदानसूरेः सविधे समीपे गमनायोपगन्तुमुत्सुकमत्कण्ठितमाशय परिणाम मनो वा अधित दधार । किंभूतः । अर्जितः स्वायत्तीकृतः शास्त्राण्येव वैभवः संपत्तिर्येन । क इव । सार्थेश इव । यथा उपार्जितबहुविभवः सार्थनाथः स्वगुरोः पितुः पार्थे गन्तुमुत्कण्ठ(ण्ठित)मना भवेत् ॥
અભ્યાસ પૂર્ણ થયા પછી, જેમ દ્રવ્ય ઉપાર્જન કરી કોઈ સાર્થવાહપુત્ર પોતાના પિતાની પાસે જવા માટે ઉત્સુક બને તેમ સર્વશાસ્ત્રને વૈભવ પ્રાપ્ત કરનારા મુનિનેતા હરહર્ષગણું ગૌરવસહિત પોતાના ગુરુદેવ વિજયદાનસૂરિજી પાસે જવા માટે ઉત્કંઠિત બન્યા. ૬
अथ दक्षिणदेशतो महा-व्रतभृन्मूर्छितमत्स्यलाञ्छनः ।
मलयानिलवत्प्रचेलिवान् , यशसा सौरभयन् भुवस्तलम् ॥६७॥ अथ स्वगुरुसमीपगमनोत्सुकाशयानन्तर पठितानन्तर वा दक्षिणनामा देशो जनपदस्ततः हीरहर्षगणिः प्रचेलिवान प्रतिष्ठते स्म । किंभूतः । महाव्रतानि पञ्च प्राणातिपातविरमणादीनि व्रतानि बिभर्तीति । अत एव पुनः किंभूतः । मूर्छितो मूर्छा चैतन्य. रोध निधनावस्थां च नीतो मत्स्यलाग्छनः स्मरो येन । महाव्रतीश्वरोऽपि एवंविधः स्मरनः । पुनः किंभूतः । यशसा स्वकीया॑ कृत्वा भुवस्तल मेदिनीमण्डल सौरभयन् सु. गन्धीकुर्वन् धवलयन् । किंवत् प्रचेलिवान् । मलयानिलवद्। यथा दक्षिणदेशो मलयाचलप्रदेशः । 'मलय आषाढो दक्षिणाचलः' इति हैम्याम् । तस्मान्मलयानिलो दक्षिणपवनः प्रचलति । 'कष्ट भो दक्षिणात्यः प्रसरति पवनः पान्थकान्ताकृतान्तः' इति भोजप्रबन्धे । सोऽपि किंभूतः । मूछितो वृद्धि नीतो मन्मथो येन । 'मूर्छन् वृद्धिमूर्छनयोः' अयधातुः। भुवो मध्यमपि सुगन्धयति च ॥
બ્લેકાર્થ
ગુરુદેવને મળવાની અભિલાષા થયા બાદ, કામદેવને મૂર્તિ કરનાર પાંચ મહાવ્રતધારી હીરહર્ષગણીએ, મલયાચલના પવનની જેમ પોતાના યશવડે પૃથ્વીતલને સુવાસિત કરતા દક્ષિણદેશ તરફથી प्रयाण यु.. ॥१७॥
मरुतामिव पद्धतीः पुरी-वृषिकन्यामिथुनाजराजिनीः। मकरान्वितमीनशालिनीः, सरितः साजबलाहकाः पुनः ॥६८॥ वसतीरिव वल्ाविष्टराः, सकुरङ्गाः शशिमण्डलीरिव । स्फुरदप्सरसो यथा दिवः, पदवीलचितवान् मुनीश्वरः ॥६९।। (युग्मम् )