________________
मर्ग ६ श्लो० ६२-६४] हीरसौभाग्यम्
४०७ લ, સારસ્વત, સિદ્ધહેમ, અને જ્યહંમ, આદિ અઢાર મહાવ્યાકરણો તથા સામુદ્રિક લક્ષણશાસ્ત્રમાં અને શબ્દશામાં સ્વલ્પકાળમાં પારંગત બન્યા. રઘુવંશ, કુમારસંભવ, મેઘદૂત, ચપૂ, કાદરી, માઘ, પદ્માનન્દ અને નૈષધ આદિ કાવ્યોની વિશેષજ્ઞતાથી પરાજીત થયેલ શુક્રાચાર્ય જાણે પુરુષાકાર બની ગયે ન હોય ! ફરા
पदमस्य हृदि व्यतन्तनी-दनिश ज्योतिरिवाभ्रवर्त्मनि । नरिनृत्यति नर्तकीव धी-रपि तांगमरङ्गवेश्मनि ॥६३॥
ज्योतिःशास्त्रमस्य हीरहर्षगणेई दि हृदये पद स्थान व्यतन्तनीद्वितनोति स्म । चकारेत्यर्थः । कथम् अनिश निरन्तरम् । कस्मिन् किमिव । अभ्रवर्त्मनि ज्योतिरिव । यथा मेघमार्गे गगने ज्योतिर्ग्रहनक्षत्रतारकादि सदा पदं कुरुते । 'नक्षत्र तारका ताराज्योतिषी भभुडु ग्रहः' इति हैम्याम् । अपि पुनरस्य धीवुद्धिस्तर्कागमः प्रमाणशास्त्रम् । 'आगमस्त्वागतौ शास्त्रे' इत्यनेकार्थः । स एव रङ्गवेश्म नाटकस्थानकमन्दिर तत्र नरीनृत्यति अतिशयेन नृत्य कुरुते । केव । नर्तकीव । यथा ताण्डवकारिका रङ्गवेश्मनि नृत्यं नृत्यति ॥
લેકાર્થ ગગનમંડલમાં ગ્રહ, નક્ષત્ર, તારા આદિ તિચક્રને જેમ નિરંતર વાસ છે, તેમ હીરગણીના હૃદયમાં તિષશાસ્ત્ર નિરંતર વાસ કરીને રહેલું હતું, અને તર્કશાસ્ત્રરૂપી રંગભૂમિ ઉપર તે હરહગણિની પ્રતિભા નર્તકીની જેમ સદેવ નૃત્ય કરી રહી હતી, કાર
गणित ह्यनुरागिरागव-न विसस्मार स मानसान्निजात् । प्रसृतास्य मतिर्जिनागमे-ऽम्बुधिकाठच्यामिव चक्रिणश्चमूः ॥६४।।
स हीरहर्षगणिर्गणित संख्यान शास्त्रं त्रिशतीलीलावतीप्रमुख हि निश्चित निजादात्मीयान्मानसाच्चित्तात् न विसस्मार न विस्मारयति स्म । किंवत् । अनुरागिरागवत् । यथा कोऽपि रागवान् पुमान् खानुरक्तीभूतजनस्नेहम् । तजनमेवेत्यर्थः । मनसः कदाचिन्न विस्मारयति । पुनरस्य मतिर्जिनागमे । आचाराग-सूत्रकृदङ्ग-स्थानाङ्ग-समवायाग-विवाहप्रज्ञप्त्यङ्ग-शाताधर्मकथाझ्ग-उपासकदशाङ्ग-अन्तकृदशाङ्गअनुत्तरोपपातिकदशाग-प्रश्नव्याकरणाग-विपाकश्रुताग इत्येकादशाङ्गानि। औपपातिक-राजप्रश्नीय-जीवाभिगम-प्रज्ञापना-चन्द्रप्रज्ञति-सूर्यप्रज्ञप्ति जम्बूद्वीपप्रज्ञति-द्वीपसागरप्रज्ञप्ति-निरयावलिका-दशाश्रुतस्कन्धम् निशीथ-व्यवहार इति द्वादशोपाङ्गानि । क्वचिदन्यान्यपि। सूर्यप्रज्ञप्ति-जम्बूद्वीपप्रज्ञप्तिचन्द्रप्रज्ञप्ति-कल्पिका-कल्पावतंसिका-पुष्पिता-पुष्पचूलिका-वृष्णिदशा इति । निशीथ-महानिशीथ-पञ्चकल्प-जातकल्प-पर्युषणकल्प-व्यवहार इति षट् छेदाः। उत्तराध्ययन-पिण्डनियुक्तिआवश्यक-दशवकालिक इति चत्वारो मूलग्रन्थाः । चतुःशरण-आतुरप्रत्याख्यान-महाप्रत्याख्यान भक्तप्रकीर्णक--तण्डुलवैकालिक-चन्दाविस्मय-गणिविद्या--मरणविभक्ति-देवेन्द्रस्तवसंस्तारकप्रकीर्णक इति दशप्रकीर्णकानि । नन्दीसूत्र-अनुयोगद्वार इति पञ्चचत्वारिंशदाग