________________
सर्ग ६ श्लो० ५८-६०] हीरसौभाग्यम्
___स हीरहर्षगणिः क्रमादनुक्रमेण पठनपरिपाटया पठन्नध्ययन कुर्वाणः प्रतिभाविभवैः बुद्धिविशेषैः कृत्वा अस्य पाठकद्विजस्य समयस्य शास्त्रस्य पारमन्त प्राप्तवान् लभते स्म । क इव । यथा प्रचरन् प्रचार कुर्वन् भानुमतां सूर्याणां समूहः द्वादशत्वाद्भानू. नाम् । 'सूरस्त्वष्टा द्वादशात्मा च हेलिः' इति हैम्याम् । 'गुहनेत्र-राशि भासा-संक्रान्त्यादित्यचक्रिराजानः । चक्रबृहस्पतिहस्ताः सभासदो द्वादश भवन्ति॥' इति संख्यानाममालायाम् । काव्यकल्पलतायां चेति वचनात् च व्रजपदोपादानम् । जैनमताच्च संख्याः सूर्याः अध्वरथैः पारियानिकैः पवमानत्वम॑नो वायुमार्गस्य गगनस्य पारमाप्नोति ॥
લોકાર્થ જેમ સૂર્યને સમૂહ, (બાર સૂર્યા, પોતપોતાના વડે આકાશમાર્ગે ચાલતા સંપૂર્ણ અવકાશને પાર પામે છે, તેમ હરિહર્ધગણી બુદ્ધિના ભવડે અભ્યાસની પરિપાટીથી (ક્રમથી) આ પંડિત સર્વશાસ્ત્રોના પારગામી બન્યા. ૧૮
अमुनाध्ययने समापिते, द्विजराजद्रविणार्पणाविधौ । सुमनोलतिकेव केवलं, जसमादेव्यजनिष्ट सा तदा ॥५९।।
अमुना हीरहर्षगणिना अध्ययने पठने समापिते संपूर्णीकृते सति तदा तस्मिन्नवसरे द्विजराजस्य पाठकब्राह्मणश्रेष्ठस्य द्रविणानां धनानामर्पणा प्रदानम् । 'चकार सेवाच. णदर्पणार्पणा' इति नैषधे । तस्या विधिः प्रकारस्तत्र केवलमेकेव सा पूर्वव्यावर्णितस्वरूपा देवसीदयिता जसमादेव्येव सुमनोलतिकेव कल्पवल्लीवाजनि । जसमादेव्यैव सर्वमपि पाठनद्रविण वितीर्णमित्यर्थः।
કલોકાર્થ શ્રીહરિહર્વગણીનું અધ્યયન પૂર્ણ થતાં પંડિતરાજને દ્રવ્ય અર્પણ કરવાના અવસરે દેવસીશ્રેણીની પ્રિયા જસમાદેવી જ એક કપલ સમાન બની. અર્થાત શાસ્ત્રાભ્યાસને સંપૂર્ણ ખર્ચ જસમાદેવીએ અર્પણ કર્યો. ૧૯
शिरसीव शिवस्य जाह्नवी, शरदश्चन्द्रमसीव कौमुदी ।
अलिनीव मृणालिनीवने, हृदि रेमेऽस्य गणेः कलन्दिका ॥६०॥ अस्यामुष्य हीरहर्णनाम्नो गर्हदि हृदयविषये कलन्दिका सर्वविद्या रेमे वसति(स्म) स्फुरद्रपा वा जाता । केव । जाह्नवीव । यथा शिवस्येश्वरस्य शिरसि मस्तके जाह्नवी गङ्गा रमते । 'धूर्जटिजटाजूट इव गङ्गया पुण्यसलिलैः प्लावितः' इति चम्पूकथायाम् । पुनः केव । चन्द्रिकेव । यथा शरदो घनात्ययसंबन्धिनि चन्द्रमसि विधौ कौमुदी रमते । पुनः केव । अलिनीव । यथा मृणालिनीनां कमलिनीनां वने भ्रमरी रमते ॥
પ્લેકાર્થ જેમ ઈશ્વરના મસ્તક ઉપર ગંગા, શરદના ચંદ્રની ચંદ્રિકા, તેમજ કમલિનીના વનમાં જેમ