SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४०४ हीरसौभाग्यम् [सर्ग ६ श्लो० ५५-५८ हैम्याम् । 'समयः शपथे भाषासंपदोः कालसंविदौ । सिद्धान्ताचारसंकेतनियमावसरेषु च ॥ क्रियाकारे निर्देशे च' इत्यनेकार्थः। सौगताद् बौद्धाचार्यात्पठति स्म । किंभूतो हंसः। परम इति पदमादौ यस्य तादृशेन हंसेन युनक्ति सङ्ग प्राप्नोति एतावता परमहंसकलितः॥ दार्थ જેમ હરિભદ્રસૂરિના શિષ્ય હંસ, પરમહંસની આથે બૌદ્ધાચાર્ય પાસેથી સમસ્ત બૌદ્ધશાસ્ત્રોના અભ્યાસ કર્યો હતો, તેમ હીરહર્ષગણિએ ધર્મસાગર મુનિની સાથે બ્રાહ્મણ પંડિત પાસેથી સમગ્ર ન્યાયશાસ્ત્રના અભ્યાસ કર્યો પપ कलयन्प्रतिभामनुत्तरा-मतितीक्ष्णां स कुशः शिखामिव । प्रथम प्रविधाय तयु-परिभाषामुखशास्त्रसंग्रहम् ॥५६॥ द्रविणार्पणहृष्टमानसा-दथ चिन्तामणिमग्रहीद् द्विजात् । परिशीलनकर्मतोषिता-दिव चिन्तामणिमादितेयतः ॥५७।। अथ पठनप्रारम्भानन्तर स हीरहर्षगणिविणानां द्रव्याणामर्पणाहानात्प्रीत हृष्ट मानसं मनो यस्य तादृशाद् द्विजात्पण्डितब्राह्मणाञ्चिन्तामणिनामशैवशास्त्रमग्रहीत् । कुत इव । आदितेयत इव । यथा कश्चिद्भाग्यवान् पुरुषः परिशीलनकर्मणा सेवाविधिना तोषितात्प्रसन्नीकृतादादितेयतो देवाञ्चिन्तामणिनाम रत्न गृह्णाति । किं कृत्वा । प्रथम पूर्व तर्कशब्देन युनक्ति तादृशी परिभाषा नाम प्रमाणादिमशास्त्रं तन्मुखे आदौ येषां तेषां तर्कपरिभाषा-मितभाषिणी शशधर-मणिकण्ठ-वरदराजी--प्रशस्तपादभाष्य- वर्धमान वर्धमानेन्दुकिरणावली प्रमुखशास्त्राणां संग्रहमध्ययन कृत्वा इत्यर्थः । स किं कुर्वन् । अतितीक्ष्णाम तिशयेन निशितामनुत्तरामसाधारणी च प्रतिभां बुद्धिं कलयन् । क इव । कुश इव । यथा दर्भः अतितीक्ष्णां शिखामग्रभाग कलयति । शिखां किंभूताम् । अनुत्तराम् । तस्मादुत्तरोऽनेतनवर्ती कोऽपि पदार्थो न तीक्ष्णः स्यादिति ॥ याअर्थ જેમ દર્ભ અતિતીક્ષ્ણ અને અનુત્તર એવા (અગ્રભાગ)ને ધારણ કરે છે, તેમ અસાધારણ કુશાગ્રબુદ્ધિને ધારણ કરનારા હીરહર્ષગણીએ પ્રથમ તર્કપરિભાષા, મિતભાષિણી, શશધર, મણિકઠ, વરદરાજી, પ્રશસ્તપાદભાષ્ય, વર્ધમાન, વર્ધમાનેન્દુ, તેમજ કિરણાવલી આદિ શાસ્ત્રોનું અધ્યયન કર્યું. જેમ કોઈ ભાગ્યવાન પુરુષ, સેવાથી સંતુષ્ટ બનાવાયેલા દેવ પાસેથી ચિંતામણિ રત્નને પ્રાપ્ત કરે, તેમ હીરહર્ષગણીએ ધનરૂપી પારિતોષિકથી અત્યંત હર્ષિત બનાવાયેલા પંડિત પાસેથી ‘ચિંતામણિ” નામના વિશાઅને પ્રાપ્ત કર્યું. ૫૬,પણા प्रतिभाविभवैः पठन् क्रमात् , समयस्यास्य स पारमाप्तवान् । प्रचरन् पवमानवर्त्मनोऽ-ध्वरथैर्भानुमतामिव व्रजः ॥५८॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy