________________
४०३
सर्ग ६ श्लो० ५३-५५] हीरसौभाग्यम्
उपवीतमुरःस्थलान्तरे, कलयंश्चन्दनचन्द्रचर्चितः ।
दमनो मदनस्य भूतिमा-निव वैकक्षितकुण्डलीश्वरः ॥५३॥
पुनः किं कुर्वन् । उरःस्थले वक्षोमध्ये उपवीत यज्ञसूत्र कलयन् दधत् । किंभूतः चन्दन मलयतरुद्रवस्तथा चन्द्रः कपूरस्ताभ्यां कृत्वा चचितः कृताङ्गरागः उत्प्रेक्ष्यतेवैकक्षः उत्तरासङ्गः संजातोऽस्य प्रावारीकृतो वा कुण्डलीश्वरः शेषनागाधिपो यस्य येन वा । 'शेषो नागधिपोऽनन्तो द्विसहस्राक्ष आलुकः । स च श्यामोऽथ वा शुक्लः सितपङ्कजलाञ्छनः ॥' इति हैम्याम् । तथा भूतिमान् भस्मोद्धूलनः । मदनस्य कामस्य दमनो वैरी शंभुरिव ॥
કલેકાર્થ ચંદન અને કપૂરથી જેમણે અંગરાગ (વિલેપન) કર્યું છે એવા પંડિતજીએ વક્ષસ્થળ ઉપર યજ્ઞોપવીત (જનોઈ) ધારણ કરી હતી. તે જાણે ઉત્તરાસંગવડે આચ્છાદિત કરેલ શેષનાગ ન હોય? અર્થાત કામદેવના શત્રુ ઈશ્વરની જેમ પંડિત શેભતા હતા. પણ
शिववाङ्मयवार्धिपारगोऽ-निशषट्कर्मरतो व्रतान्वितः ।
वपुरभ्युपगत्य वर्णिना-मिव धर्मः प्रकटीभवन्नयम् ॥५४॥
अथ वा वपुः शरीरमभ्युपगत्याङ्गीकृत्य प्रकटीभवन्नक्षिलक्ष्यः संपद्यमानः वर्णिनां ब्राह्मणानामय प्रत्यक्षो धर्म इव । किंभूतो द्विजः । शिववाङ्मय नैयायिकशास्त्र तदेव वाधिः समुद्रः तस्य पारगः पारगामी । पुनः किंभूतः । अनिश षट्सु अध्ययनाध्यापनयजनयाजनदानप्रतिग्रहलक्षणेषु कर्मसु ब्राह्मणोचितेषु कार्येषु रत आसक्तः। पुनः किंभूतः । व्रतेाह्मणानां शैवशासनस्य वा उचितैयोग्यनियमैरन्वितः कलितः । अत एव तद्धर्मोत्प्रेक्षा ॥ इत्यादिचतुर्भिः कलापकेन पण्डितद्विजवर्णनम् ॥
स અથવા શરીરને અંગીકાર કરીને પ્રત્યક્ષ થયેલે જાણે બ્રાહ્મણોને સાક્ષાત્ ધર્મ ન હોય ! તેવા તર્કશાસ્ત્રરૂપ સમુદ્રના પારગામી, નિરંતર અધ્યયન (ભણવું), અધ્યાપન (ભણાવવું), યજન (યજ્ઞ કરવો), યાજન (યજ્ઞ કરાવ) તેમજ દાન અને આદાન આદિ બ્રાહ્મણોનાં પર્ફોર્મોમાં રક્ત તથા શૈવધર્મ ઉચિત વ્રત નિયમોથી યુક્ત એવા પંડિતજી મૂર્તિમાન ધર્મની જેમ શોભતા હતા. પજા
स पपाठ सधर्मसागरोऽ-खिलनैयायिकवाङ्मय ततः । समय सुगतस्य सौगता-दिव हंसः परमादिहंसयुक् ॥५५॥
स हीरहर्षगणिस्ततो ब्राह्मणादखिल समग्र नैयायिकाणां वाङ्मय शास्त्र पपाठ पठति स्म । स किंभूतः । सह धर्मसागरेण वर्तते यः । क इव हंस इव । यथा हरिभद्रसूरिभागिनेयको हंसः सुगतस्य बौद्धस्य समय शास्त्रम् । 'आप्तोक्तिः समयागमौ' इति